सामग्री पर जाएँ

कन्याकुब्ज

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कन्याकुब्जः, पुं, (कन्याः कुब्जाः यत्र देशे सः । वायुना हि अस्मिन् देशे कन्याः कुब्जीकृता अतोऽस्य तथात्वम् ।) कान्यकुब्जदेशः । इति हेमचन्द्रः ॥ (यथा, महाभारते । वनपर्ब्बणि ॥ “कन्याकुब्जेऽपिबत्सोममिन्द्रेण सह कौशिकः” ॥ वायुनाहि अस्मिन् देशे पुरा कन्याः कुब्जीकृताः । तद्विवरणमुच्यते । पुरा किल कुशनाभो राजषि- र्घृताच्यां कन्याशतं जनयामास । रूपयौवनसम्पन्ना- स्तास्तु कदाचित् उद्यानभूमिमागम्य परयानन्द- सन्तत्या चिक्रीडुः । अथ सर्व्वगो वायुश्चारुसर्व्वा- ङ्गीस्ता अवलोक्य कामशरपीडितोऽब्रवीत् । अहं वः कामये, भवत्यो मे भार्य्या भवन्तु । अय ता अङ्गनास्तस्य तद्वचनं श्रुत्वा उच्चैर्विहस्य तमब्रुवन् भो वायो ! त्वं भूतानां अन्तश्चरसि तत्कथम- स्माकं मनोभावं न वेत्सि । वयं किल कुशनाभ- सुताः कथं पितरं कामतः समतिक्रम्य खयं वर- मभिलषामः । पिता हि अस्मान् यस्मै दास्यति स नो भर्त्ता भविष्यतीति । अतः क्षन्तव्याः खलु भवन्नियोगं कर्त्तुमशक्ता वयम् । वायुस्तु तासामे- तद्वचनमाकर्ण्य कोपसमन्वितः स्वतेजसा तासां शरीरेषु प्रविश्य मध्ये बभञ्ज । ततः प्रभृति देशोऽयं कन्याकुब्ज इत्येव ख्यातः ॥ अस्य विस्तृ- तिस्तु रामायणे आदिकाण्डे ३५ अध्याये द्रष्टव्या ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कन्याकुब्ज¦ पु॰ कन्याः कुब्जाः यत्र। कान्यकुब्जदेशे हेम॰
“कन्याकुब्जेऽपिबत् सोममिन्द्रेण सह कौशिकः” भा॰ व॰

२७ अ॰। कन्यानां संघः अण् कान्यं तत् कुब्जं यत्र कान्यकुब्जोऽप्यत्र। यथा च तद्देशे कन्यानां वायुना कुब्जत्वंकृतं यथा वर्णितम् रामा॰ आ॰ काण्डे।
“कुशनाभस्तु राजर्षिः कन्याशतमनुत्तमम्। जनयामासधर्म्मात्मा घृताच्यां रघुनन्दन!। तास्तु यौवनशालिन्योरूपवत्यः स्वलङ्कृताः। उद्यानभूमिमागम्य प्रादृषीव शत-ह्रदाः। गायन्त्यो नृत्यमानाश्च वादयन्त्यस्तु राघव!। आमोदं परमं जग्मुर्वराभरणभूषिताः। अथ ताश्चारु-सर्व्वाङ्ग्यो रूपेणाप्रतिभा भुवि। उद्यानभूमिमागम्य ताराइव घनान्तरे। ताः सर्व्वा गुणसम्पग्रा रूपयौवनसंयुताः। दृष्ट्वा सर्व्वात्मको वायुरिदं वचनमब्रवीत्। अहं वः कामयेसर्व्वा भार्य्या मम भविष्यथ। मानुपस्त्यज्यतां भावोदीर्घमायुरवाप्स्यथः चलं हि यौवनं नित्यं मानुषेषुविशेषतः। अक्षयं यौवनं प्राप्ता अमर्य्यश्च भविष्यथ। तस्य तद्वचनं श्रुत्वा वायोरक्लिष्टकर्म्मणः। अपहस्यततो वाक्यं कन्याशतमथाब्रवीत्। अन्तश्चरसि भूतानांसर्व्वेषां मुरसत्तम!। प्रभावज्ञाश्च ते सर्व्वाः किमर्थमव-मन्यसे। कुशनाभसुतादेव! समस्ताः सुरसत्तम!। स्थाना-च्च्यावयितुं देवं रक्षामस्तु तपो वयम्। मा मूत् स कालोदुर्म्मेधः! पितरं सत्यवादिनम्। अवमन्य स्वधर्भोण खयंवरमुपास्महे। पिता हि प्रभुरस्माकं दैवतं परमञ्च सः। यस्य नो दास्यति पिता स नो भर्त्ता भविष्यति। तासांतु वचनं श्रुत्वा हरिः परमकोपनः। प्रविश्य सर्वगा-त्राणि बभञ्ज भगवान् प्रभुः। ताः कन्या वायुना भम्बाविविशुर्नृपतेर्गृहम्। प्रविश्य च सुसम्भ्रान्ताः सलज्जाःसाश्रुलोचनाः। स च ता दयिता भग्नाः कन्याः पर-मशोभनाः। दृष्ट्वा दीवस्तदा राजा सम्भ्रान्त इमदब्रवीत्। किमिदं कथ्यतां पुत्त्र्यः! को धर्ममवमन्यते। कुब्जाःकेन कृताः सर्व्वाश्चेष्टन्त्यो नाभिभाषत”।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कन्याकुब्ज¦ m. (-ब्जः) Kanyakubja or Kinnoge, an ancient city of great note, in the north of Hindustan, known to classical geography as Cannogyza: the name also applies to its dependencies or the surrounding district; also कान्यकुब्ज। E. कन्या a girl, and कुब्ज round- shouldered, crooked; the etymology, alludes to a legend relating to the one hundred daughters of KUSANAB'HA the king of this city, who were all rendered crooked by Vayu, for non-compliance with his licentious desires.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कन्याकुब्ज/ कन्या--कुब्ज f( आ)n. = कन्य-कुब्जabove L.

"https://sa.wiktionary.org/w/index.php?title=कन्याकुब्ज&oldid=259940" इत्यस्माद् प्रतिप्राप्तम्