सामग्री पर जाएँ

कन्याकुब्जः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कन्याकुब्जः, पुं, (कन्याः कुब्जाः यत्र देशे सः । वायुना हि अस्मिन् देशे कन्याः कुब्जीकृता अतोऽस्य तथात्वम् ।) कान्यकुब्जदेशः । इति हेमचन्द्रः ॥ (यथा, महाभारते । वनपर्ब्बणि ॥ “कन्याकुब्जेऽपिबत्सोममिन्द्रेण सह कौशिकः” ॥ वायुनाहि अस्मिन् देशे पुरा कन्याः कुब्जीकृताः । तद्विवरणमुच्यते । पुरा किल कुशनाभो राजषि- र्घृताच्यां कन्याशतं जनयामास । रूपयौवनसम्पन्ना- स्तास्तु कदाचित् उद्यानभूमिमागम्य परयानन्द- सन्तत्या चिक्रीडुः । अथ सर्व्वगो वायुश्चारुसर्व्वा- ङ्गीस्ता अवलोक्य कामशरपीडितोऽब्रवीत् । अहं वः कामये, भवत्यो मे भार्य्या भवन्तु । अय ता अङ्गनास्तस्य तद्वचनं श्रुत्वा उच्चैर्विहस्य तमब्रुवन् भो वायो ! त्वं भूतानां अन्तश्चरसि तत्कथम- स्माकं मनोभावं न वेत्सि । वयं किल कुशनाभ- सुताः कथं पितरं कामतः समतिक्रम्य खयं वर- मभिलषामः । पिता हि अस्मान् यस्मै दास्यति स नो भर्त्ता भविष्यतीति । अतः क्षन्तव्याः खलु भवन्नियोगं कर्त्तुमशक्ता वयम् । वायुस्तु तासामे- तद्वचनमाकर्ण्य कोपसमन्वितः स्वतेजसा तासां शरीरेषु प्रविश्य मध्ये बभञ्ज । ततः प्रभृति देशोऽयं कन्याकुब्ज इत्येव ख्यातः ॥ अस्य विस्तृ- तिस्तु रामायणे आदिकाण्डे ३५ अध्याये द्रष्टव्या ॥

"https://sa.wiktionary.org/w/index.php?title=कन्याकुब्जः&oldid=123340" इत्यस्माद् प्रतिप्राप्तम्