सामग्री पर जाएँ

कपटः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कपटः, पुं, क्ली, (पटतीति पटः । पट् + अच् । कस्य सतो ब्रह्मणोऽपि पटः आवरकः । यद्वा कप + अटन् ।) अयथार्थव्यवहारः । प्रतारणा । तत्प- र्य्यायः । व्याजः २ दम्भः ३ उपधिः ४ छद्म ५ कैत- वम् ६ । इत्यमरः । १ । ७ । ३० ॥ कूटम् ७ कल्कम् ८ छलम् ९ मिषम् १० कैरवम् ११ । इति शब्दरत्नावली ॥ (“नरेन्द्रसिंह ! कपटं न वोढुं त्वमिहार्हसि” । इति महाभारते १ । ७४ । १०१ ॥ दनुपुत्त्रः । यथा महाभारते १ । ६४ । २५ । “निचन्द्रश्च निकुम्भश्च कुपटः कपटस्तथा । एते ख्याता दर्नोर्वंशे दानवाः परिकीर्त्तिताः” ॥)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कपटः [kapaṭḥ] टम् [ṭam], टम् Fraud, deceit, trick, cheating; कपटशत- मयं क्षेत्रमप्रत्ययानाम् Pt.1.191; कपटानुसारकुशला Mk.9.5.-टी A measure equal to the capacity of the hollows of the two hands joined together. -Comp. -तापसः one who pretends to be an ascetic, pseudo ascetic. -पटु a. adept in deceit, deceitful, crafty; छलयन् प्रजास्त्वमनृपेन कपटपटुरैन्द्रजालिकः Śi.15.35. -प्रबन्धः a fraudulent contrivance. H.1. -लेख्यम् a forged document. -वचनम् deceitful talk. -वेश a. disguised, masked (-शः) disguise, false dress.

"https://sa.wiktionary.org/w/index.php?title=कपटः&oldid=260090" इत्यस्माद् प्रतिप्राप्तम्