सामग्री पर जाएँ

कपर्द्द

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कपर्द्दः, पुं, (पर्ब्ब पूरणे + सम्पदादित्वात् भावे क्विप् । “रात् लोपः” । ६ । ४ । २१ । इति वलोपे पर् पूर्त्तिः । केन सुखेन जलेन वा पर पूर्त्तिं ददातीति । क + पर् + दा + सुपीति योग विभागात् कः । कस्य गङ्गाजलस्य परा पूरणेन दापयति शुध्यति वा । क + पर् + दैप् शोधने “आतोऽनुपसर्गे कः” । ३ । २ । ३ । इति कः ।) शिवजटा । इत्यमरः । १ । १ । ३७ ॥ (यथा काशिखण्डे । २९ । ४४ । “कमनीयजलाकम्रा कपर्द्दिसुकपर्दगा” ॥) वराटकः । इति मेदिनी ॥ (“पञ्चभिः कपद्दः पञ्चिका नाम द्यूतमस्ति” । इति पां २ । १ । १० । सूत्रस्य सरला टीका ॥)

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कपर्द्द¦ पु॰ पर्व्व पूरणे क्किप् रात् वलोपे पर् पूर्त्तिः कस्यगङ्गाजलस्य परा पूर्त्त्या दायति शुध्यति क + पर् + दै--क।

१ हरजटायाम्। केन सुखेन परा पूर्त्त्या दीयते दा-घञर्थेक।

२ वराटके अल्पर्थेकन् अत्नार्थे पुंस्त्री॰। स्त्रीत्वे टाप् अत इत्त्वम्। कपर्द्दिकाप्यत्र! दपर्दक-भेदाश्च राजनि॰ दर्शिता यथा।

१ सुवर्णवर्णा सिंही

२ धूम्रवर्णा व्याघ्री,

३ पीतपृष्ठा सितोदरा मृगी,

४ श्वेत-वर्णा हंसी

५ नातिदीर्घिका विदन्ता”। कपर्द्दश्च उपरसभेदः भावप्र॰ उक्तः तद्वाक्यञ्च कनकरसशब्दे दर्शितम्। तस्य गुणाश्च ततोक्ता यथा
“कपर्दो दाहपित्ता-सृशोथहः शीतलः सरः”। राजनि॰ तु
“कपर्दः कटुति-क्तोष्णः कर्णशूलव्रणापहः। गुल्मशूलनेत्रदोषनाशनःपरिकीर्त्तितः”।
“पञ्चाङ्कान् सौवर्ण्णान् कपर्द्दान्” यजु॰।
“यद्यहमिमं सक्तुशरावं विक्राय दश कपर्द्दकान् प्रा-प्नोमि” हितो॰

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कपर्द्द¦ m. (-र्द्दः)
1. The braided hair of SIVA.
2. A small shell used as a coin, a Cowri.
3. A name of SIVA. E. क water, (that of the Ganges,) पृ in the deriv. form, nourishing, and द from दा to give; or क happiness, &c. which will apply to both senses; also with कन् added कपर्द्दक।

"https://sa.wiktionary.org/w/index.php?title=कपर्द्द&oldid=260205" इत्यस्माद् प्रतिप्राप्तम्