सामग्री पर जाएँ

कपर्द्दः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कपर्द्दः, पुं, (पर्ब्ब पूरणे + सम्पदादित्वात् भावे क्विप् । “रात् लोपः” । ६ । ४ । २१ । इति वलोपे पर् पूर्त्तिः । केन सुखेन जलेन वा पर पूर्त्तिं ददातीति । क + पर् + दा + सुपीति योग विभागात् कः । कस्य गङ्गाजलस्य परा पूरणेन दापयति शुध्यति वा । क + पर् + दैप् शोधने “आतोऽनुपसर्गे कः” । ३ । २ । ३ । इति कः ।) शिवजटा । इत्यमरः । १ । १ । ३७ ॥ (यथा काशिखण्डे । २९ । ४४ । “कमनीयजलाकम्रा कपर्द्दिसुकपर्दगा” ॥) वराटकः । इति मेदिनी ॥ (“पञ्चभिः कपद्दः पञ्चिका नाम द्यूतमस्ति” । इति पां २ । १ । १० । सूत्रस्य सरला टीका ॥)

"https://sa.wiktionary.org/w/index.php?title=कपर्द्दः&oldid=123388" इत्यस्माद् प्रतिप्राप्तम्