कपाटम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कपाटम्, त्रि, (कं वायुं मस्तकं वा पाटयंतीति । पट- गतौ + णिच् + कर्म्मणि उपपदे अण् ।) स्वनाम- ख्यातद्वाराच्छादककाष्ठफलकविशेषः । तत्पर्य्यायः । अररम् २ । इत्यमरः । २ । २ । १७ ॥ कवाटः ३ कपाटी ४ कवाटी ५ अररी ६ अररिः ७ । इति तट्टीका ॥ द्वारकण्टकम् ८ असारम् ९ । इति शब्दरत्नावली ॥ (यथा महाभारते १ । जतुगृहवासे । १४८ । १७ । “चक्रे च वेश्मनस्तस्य मध्ये नातिमहाविलम् । कपाटयुक्तमज्ञातं समं भूम्याश्च भारत” ! ॥ कं शिरः इत्युपलक्षणेन मनुष्यादीनां ग्रहणमिति बोध्यम् । कं वातं वा पाटयति वारयति गृह- द्वारदेशं आवृणोतीत्यर्थः । मनुव्यवातादीनां गतिं रुणद्धि वा । क + पट् + णिच् + अण् । यथा, “द्वाराणि समुपावृण्वन् कपाटान्यवघट्टयन्” । इति रामायणम् ।
