सामग्री पर जाएँ

कपालमोचन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कपालमोचन¦ न॰ कपालं मुच्यतेऽत्र मुच--आधारे ल्युटु। काशीस्थे तीर्थभेदे। आमूलं तत्कथा काशीख॰

३१ अ॰ यथा
“पुरा पितामहं विप्र! मेरुशृङ्गे महर्षयः। प्रोचुः प्र-णम्य लोकेशं किमेकं तत्त्वमव्ययम्। स मायया महेशस्यमोहितो लोकसम्भवः। अविज्ञाय परं भावमात्मानप्राह वर्ष्मिणम्। जगद्योनिरहं धाता स्वयम्भूरेक ई-श्वरः। अनादिमदहं ब्रह्म मामनर्च्य न मुच्यते। प्रवर्त्तको हि जगतामहमेव निवर्त्तकः। नान्यो मदधिकःसत्यं कश्चित् क्वापि सुरोत्तमः। तस्यैवं ब्रुवतोधातुःक्रतुर्नारायणांशजः। प्रोवाच प्रहसन्वाक्यं रोसताम्र-विलोचनः। अविज्ञाय परन्तत्त्वं किमेतत् प्रतिपाद्यते। अज्ञानं योगयुक्तस्य नचैतदुचितन्तव। अहं कर्त्ता हिलोकानां यज्ञो नारायणः परः। न मामनादृत्य विधे!जीवनं जगतामज!। अहमेव परं ज्योतिरहमेव परा-गतिः। मत्प्रेपितेन भवता सृष्टिरेषा विधीयते। एवंविप्रकृतौ मोहात् परस्परजयैषिणौ। पप्रच्छतुः प्रमाण-ज्ञानाम्नायांश्चतुरोऽपि तौ। विधिक्रतू ऊचतुः। वेदाः प्र-[Page1655-b+ 38] माणं सर्व्वत्र प्रतिष्ठां परमाश्रिता!। यूयमेव न सन्देहःकिन्तत्त्वं प्रतितिष्टत। श्रुतयऊचुः। यदि मान्यावयन्देवौ!सृष्टस्थितिकरौ! विभू!। तदा प्रमाणं वक्ष्यामोभवत्सन्दे-हभेदकम्। इत्युक्तमिदमाकर्ण्य प्रोचतुस्तौ श्रुतीः प्रति। युष्मदुक्तं प्रमाणं नौ तत्त्वं तत्सम्यगुच्यताम्। ऋगुवाच। यदन्तःस्थानि भूतानि यतः सर्वं प्रवर्त्तते। यदाहुस्तत् परंतत्त्वं म रुद्रस्त्वेक इव हि। यजुरुवाच। योयज्ञैग्खिलैरीज्वो यो योगेन समीक्ष्यते। चेत् प्रमाणं वयं वां हि सएकः सर्वदृक् शिवः। सामोवाच। येनेदं भ्राम्यते विश्वंयोगिभिर्यो विचिन्त्यते। यद्भासा भासते विश्वं स एक-स्त्र्यम्बकः षरः। अथर्वोवाच। यं प्रपश्यन्ति सर्व्वेशंभक्त्यानुग्राहिणोजनाः। तमाहुरेकं कैवल्यं शङ्करंदुःखतस्करम्। श्रुतीरितं निशम्येत्थंतावतीव विमोहितौ। स्मित्वाहतुः क्रतुविधी महामर्षयुतौ मुने!। कथं प्रमथ-नाथोऽसौ रममाणो निरन्तरम्। दिगम्बरः पितृवने शिवया धूलिधूसरः। विटङ्गवेशो जटिलो वृषगोव्यालभूषणः। परं ब्रह्मत्वमापन्नःक्व तत्सङ्गविवर्जितम्। तदुदीरितमा-कर्ण्य प्रणवात्मा सनातनः। अमूर्त्तोमूर्त्तिमान् मूत्वाहसमान उवाच तौ। प्रणव उवाच। नह्येष भगवान्शक्त्या आत्मनो व्यातरिक्तया। कदाचिद्रज्यते रुद्रोलीलारूपधरोहरः। असौ हि भगवानीशः स्वयंज्योतिः सनातनः। आनन्दरूपा तस्यैषा शक्तिर्नाग-न्तुका शिया। इत्येवमुक्तेऽपि तदामखमूर्त्तेरजस्य हि। नाज्ञानमगमन्नाशं श्रीकण्ठस्यैव मायया। प्रादुरासीत्ततोज्योतिरुभयोरन्तरे महत्। पूरयन्निजया भासा द्यावा-भूम्योर्यदन्तरम्। ज्योतिर्मण्डलमध्यस्थोददृशेपुरुषाकृतिः। प्रजज्वालाथ कोपेन ब्रह्मणः पञ्चमं शिरः। आवयोर-न्तरं कोऽसौ यिभृयात् पुरुषाकृतिम्। विघिः संभावयेद्यावत्तावत् सहि विलोकितः। स्रष्ट्रा क्षणेन च महान्पुरुषो नीलंलोहितः। त्रिशूलपाणिर्भालाक्षो नागोडु-पविभूषणः। हिरण्यगर्भस्तं प्राह जाने त्वां चन्द्रशेख-रम्। भालस्थलान्मम पुरा रुद्रः प्रादुरभूद्धवान्। रीद-आद्रुद्रनामासि योजितोऽति मया पुरा। मामेव शरणंयाहि पुत्र रक्षां करोमिते। कथेश्वरः पद्मयोनेः श्रुत्वागर्ववतीं गिरम्। स कोपतःसमुत्पाद्य पुरुषं भैरवाकृति-म्। प्राह पङ्कजजन्माऽसौ शास्यस्ते कालभैरव। कालव-द्राजसे यस्मात् कालराजस्ततो भवान्। विश्वं भर्त्तुंसमर्थोऽमि भरणाद्भैरवः स्मृतः। त्वत्तोभेष्यति कालोऽपि[Page1656-a+ 38] ततस्त्वं कालभैरवः। आमर्दयिष्यति भवान् रुष्टोदुष्टात्मनोयतः। आमर्दक इकि ख्यातिं ततः सर्वत्र या-स्यति। यतः पापानि भक्तानां भक्षयिष्यति तत्क्षणात्। पापभक्षण इत्येतत्तव नाम भविष्यति। या मे मुक्तिपुरीकाशी सर्वेभ्याऽपि गरीयसी। आधिपत्यञ्च तस्यान्ते काल-राज! सदैव हि। तत्र ये पापकर्त्तारस्तेषां शास्ता त्व-मेब हि। शुभाशुभं न तत् कर्म चित्रगुप्तो लिखिष्यति। एतान् वरान् प्रगृह्याथ तत्क्षणात् कालभैरवः। वामा-ङ्गुलिनखाग्रेण चकर्त्त च शिरोविधेः। यदङ्गमपराध्नोतिकार्य्यन्तस्यैव शासनम्। अतो येन कृता निन्दा तच्छि-न्नं पञ्चमं शिरः। यज्ञमूर्त्तिधरो विष्णुस्ततस्तुष्टाव श-ङ्करम्। भोतो हिरण्यगर्भोऽपि जजाष शतरुद्रियम्। आश्वास्य तौ महादेवः प्रीतः प्रणतवत्सलः। प्राह स्वभू-र्त्तिमपरां भैरवं तं कपर्दिनम्। मान्योऽध्वरेशोभवतातथा शतधृतिस्त्वयम्। कपालं वैधसञ्चापि नीललोहित!धारय। ब्रह्महत्याप्रनोदाष धृतिं लोकाय दर्शयन्। चर त्वं सततं भिक्षां कपालिव्रतमास्थितः। इत्युक्त्वान्तर्हि-तो देवः प्रीतः प्रणतवत्सलः। उत्पाद्य कन्यामेकान्तु-ब्रह्महत्येति विश्रुताम्। रक्ताम्बरधरां रक्तां रक्तस्रगनु-लेपनाम्। दंष्ट्राकरालवदनां ललज्जिह्वातिभीषणाम्। अन्तरीक्षैकपादाग्रां पिबन्तीं रुधिरं बहु। कर्त्तृकर्परहस्ताङ्कां स्फुटं पिङ्गोग्रतारकाम्। जनयन्तीं महोद्-वेगं भैरवस्यापि भीषणाम्। यावद्वाराणसीन्दिव्यां पुरीमेष गमिष्यति। तावत्त्वं भीषणे। कालमनुगच्छोग्ररू-पिणि!। सर्वत्र ते प्रवेशोऽस्ति मुक्त्वाताराणसीं पुरीम्। नियोज्य तामिति शिवोऽप्यन्तर्घानं गतस्ततः। तत्सान्नि-ध्याद्भैरवोऽपि कालोऽभूत् कालकालनः। स देवदेववाक्येन बिभ्रत् कापालिकं व्रतम्। कपालपाणिर्विश्वात्मा च-चार भुवनत्रयम्। नात्याक्षीच्चापि तं देवं ब्रह्महत्याति-दारुणा। सत्यलोकेऽपि वैकुण्ठे महेन्द्रादिपुरीष्वपि। त्रिजगत्पती रुद्रोऽपि व्रतीति जगतीश्चरन्। प्रतितीर्थंभ्रमन्नापि विमुक्तो व्रह्महत्यया। अनेनैवानुमानेन महि-मा त्ववगम्यताम्। ब्रह्महत्यापनोदिन्याः काश्याः कलससम्भव!। सन्ति तीर्थान्यनेकानि बहून्यायतनानि च। अधित्रिलोकि नो काश्याः कलामर्हन्ति पोडशीम्। ता-वद्गर्जति पापानि ब्रह्महत्यादिकान्यलम्। यावन्नाम नशृण्वन्ति काश्याः पापाचलाशनेः। प्रमथैः सेव्यमानोऽपित्रिलोकीं विचरन् हरः। कापालिको ययौ देवो नारायण[Page1656-b+ 38] निकेतनम्। अथायान्तं महाकालं त्रिनेत्रं धृतकुण्ड-लम्। महादेवांशसंमूतं मैरवं भीषणाकृतिम्। पपातदण्डवद्भूमौ दृष्ट्वा तं गरुडध्वजः। देवाश्च मुनयश्चापिदेवनार्य्यः समन्ततः। निपेतुः प्रणिपत्यैनं प्रणतःकमलापतिः। शिरस्यञ्जलिमारीप्य स्तुत्वा बहुविधैः स्तवैः। क्षोरोदमथनोद्भूतां प्राह पद्मालयां हरिः। प्रिये! पश्या-ज्बनयते! धन्याऽसि शुभगेऽनघे!। धन्योऽहं देवि। सु-श्रोणि! यत् पश्यावीजगत्पतिम्। अयं धाता विधाताच लोकाना प्रभुरीश्वरः। अनादिशरणं दान्तः परःषड्विंशसम्मितः। सर्वज्ञः सर्वयोगीशः मर्वभूतैकनायकः। सर्व्वभूतान्तरात्मायं सर्व्वगः सर्व्वदः सदा। यं विनिद्रा-विनिःश्वासाः शान्ता ध्यानपरायणाः। धिया पश्यन्तिहृदये सोऽयमद्य निरीक्ष्यताम्। यं विदुर्वेदतत्त्वज्ञा योगि-नोजितमानसाः। अरूपोरूपवान् भूत्वा सोऽयमायातिसर्व्वगः। अहोविचित्रं देवस्य चेष्टितं परमेष्ठिनः। य-स्याख्यां ब्रुवतोनित्यं न देहः सोपि देहभृत्। यं दृष्ट्वान पुनर्जन्म लभ्यते मानवैर्भुवि। सोऽयमायाति भगवान्त्र्यम्बकः शशिभूषणः। पुण्डरीकदलायामे धन्ये मेऽद्यविलोचने। ययोरतिथितां नीतो लोलारूपधरोहरः। धिक्धिक् पदन्तु देवानां परं दृष्ट्वा तु शङ्करम्। लभ्यतेयन्न निर्व्वाणं सर्व्वदुःखान्तकृच्छिवः। देवत्वादशुभं कि-ञ्चिद्देवि! लोके न विद्यते। दृष्ट्वापि सर्व्वदेवेशं यन्मुक्तिंन लभामहे। एवमुक्त्वा हृषीकेशः संप्रहृष्टतनूरुहः। प्रणिपत्य महादेवमिदमाह वृषध्वजम्। किमिदं देव-देवेन सर्व्वज्ञेन त्वया विभो!। क्रियते जगतां धात्रा सर्व-पापहराव्यय!। क्रीडेयन्तव देवेश! त्रिलोचन! महाद्यु-ते! किंकारणं विरूपाक्ष! चेष्टितं ते खरार्द्दन। किमर्थंभगवन् शम्भोः! भिक्षाञ्चरसि शक्तिप!। संशयोमे जग-न्नाथ! नतत्रैलोक्यराज्यद!। एवमुक्तस्ततः शम्भुर्विष्णुमेत-तदुदाहरत्। ब्रह्मणस्तु शिरश्छिन्नमङ्गुल्यग्रनखेन ह। तदाप्रभृत्यहं विष्णो! चराम्येतद्व्रतं शुभम्। एवमुक्तो-महेशेन पुण्डरीकविलोचनः। स्मित्वा किञ्चिन्नतशिराःपुनरेवं व्यजिज्ञपत्। यथेच्छसि तथा क्रीड सर्व्वपिष्ट-पनायक!। मायया मां महादेव! न छादयितुम-हसि। नाभीकमलकोषात्तु कोटिशः कमलासनान्। कल्पेकल्पेसृजामीश त्वन्नियोगबलाद्विभो!। त्यज मायामिमांदेव। दुस्तरामछतात्माभः। मदादयो महादेव! माययातव भीहिताः। यथावन्नावगच्छामश्चेष्टितन्ते शिवापते!। [Page1657-a+ 38] संहारकाले संप्रप्ते सदेवानखिलान् मुनीन्। लोकान् व-र्ण्णाश्रमवतो हरिष्पसि यदा हर!। तदा क्व ते महादेव!पापं ब्रह्मबधादिकम्। पारतन्त्र्यं न ते शम्भो! स्वैरंत्रीडेस्ततोभवान्। व्यतीतब्रह्मणामस्थ्नां स्रक्कण्ठे तेऽवभासते। यदा तदा क्वानुगता त्वां हत्या ब्रह्मणोऽनघ। कृत्वापि सुमहत् पापं त्वां यः स्मरति भावतः। आधारंजगतामीश! तस्य पापं विलीयते। यथा तमोन तिष्ठेतसन्निधावं शुमालिनः। तथा च तव भक्तस्य पापं न-श्यति तत्क्षणम्। यश्चिन्तयति पुण्यात्मा तव पादाम्बुज-द्वयम्। ब्रह्महत्याभवमापि पापन्तस्य व्रजेत् क्षयम्। तव नामानुरक्ता वाग्यस्य पुंसोजगत्पते!। अप्यद्रिकूटतुलितं नैनस्तमनुधावति। रजसा तमसा विवर्द्धितंक्वनु पापंपरितापदायकम्। क्व च ते शिवनाम मङ्गलं जन-जीवातु जगद्रुजापहम्। यदि जातु चिदन्धकद्विषस्तवनामौष्ठपुटाद्विनिःसृतम्। शिव। शङ्कर! चन्द्रशेखरेत्यसकृन्नाम न संसृतिः पुनः। परमात्मन्! परं धामस्वेच्छाविधृतविग्रह!। कुतूहलं तवेशेदं क्व पराधीनताशिवे। अद्य धन्योऽस्मि देवेश! यन्न पश्यन्ति योगिनः। पश्यामि त्वां जगन्मूलमक्षयं परमेश्वरम्। अद्य मेपरमोलाभस्त्वद्य मे मङ्गलं परम्। त्वदॄष्ट्यमृततृप्तस्यतृणं स्वर्गापवर्गकम्। इत्थं वदति गोविन्दे विमलापद्मया तया। मनोरथवती नाम भिक्षा पात्रे समर्पिता। भिक्षाटनाय देवोऽपि निरगात् परया मुदा। दृष्ट्वानुया-यिनीन्तान्तु समाहूय जनार्द्दनः। संप्राथयंद्व्रह्महत्यांविमुञ्चेति त्रिशूलिनम्। ब्रह्महत्योवाच। अमुनापिमिषेणाहं संसेव्यद्य वृषध्वजम्। आत्मानं पावयि-ष्यामि क्व पुनर्भवदर्शनम्। सा तत्याज न तत्पार्श्वं व्या-हृतापि मुरारिणा। तमूचेऽथ हरिं शम्भुः स्मेरास्योवचनं शुभम्। त्वद्द्याक्यामृतपानेन तुष्टोऽस्मि बहु-मानद!। वरं वृणीष्व गोविन्द! वरदोऽस्मि तवानघ!न माद्यन्ति तथा भैक्षैर्भिक्षवोऽप्यतिसंस्कृतैः। यथा मानसुधापानैर्ननु भिक्षाटनज्वराः। विष्णुरुवाच। एषएव वरः श्लाघ्यो यदहन्देवताधिपम्। पश्यामि त्वां देवदेवं मनोरथपथातिगम्। अनभ्रेयं सुधावृष्टिर-नायासो महोत्सवः। अयत्नो निधिलाभोयं वीक्षणंहरते सताम्। अवियोगस्तु मे देव। त्वदङ्घियुगलेन वै। एष एव वरः शम्भो! नान्यं कञ्चिद्वरं वृणे। श्रीभैरवौवा-च। एबं भवतु ते देव! यत्त्वयोक्तं महामते!। सर्व्वेषा-[Page1657-b+ 38] मेव देवानां वरदस्त्वं भविष्यसि। अनुगृह्येति दैत्यारिं से-न्द्रादिभुवने चरन्। भेजेविमुक्तिजननीं नाम्ना वारा-णसीं पुरीम्। यत्र स्थितानां जन्तूनां कलां नार्हन्तिषोडशीम्। अपि ब्रह्माणि देवानां पदानि विपदाम्प-दम्। वरं वाराणसीवासो जटामुण्डोदिगम्बरः। नान्यत्र छत्रसम्पन्नवसुधामण्डलेश्वरः। वरं वाराणसीभिक्षा न लक्षाधिपतान्यतः। लक्षाधीशोविशेद्गर्भं तद्-भिक्षाशी न गर्भभाक्। भिक्षापि यत्र भिक्षुभ्योदत्ताऽम-लक सम्मिता। सुमेरुणापि तुलिता वाराणस्यां गुरुर्भवेत्। वर्माशनं हि योदद्यात् काश्यां सीदत्कुटुम्बिने। या-वन्त्यन्नानि तावन्ति युगानि स दिवीज्यते। वाराणस्यांवर्षभोज्यं योदद्यान्निरुपायिने। स कदाचित् तृट्क्षुधा नोदुःखं भुङ्क्ते नरर्षभ!। वाराणस्यां निवसतां यत्पुण्यमुपजायते। तदेव संवासयितुः फलं त्वविकलं भवेत्। ब्रह्म-हत्यादिपापानि यस्या नाम्नोऽपि कीर्त्तनात्। त्यजन्तिपापिनां काशी सा केनेहोपमीयते। क्षेत्रे प्रविष्टमात्रेऽथभैरवे भीषणाकृतौ। हाहेत्युक्त्वा ब्रह्महत्या पातालतलमाविशत्। कपालं ब्रह्मणोरुद्रः सर्व्वेषामेव पश्यताम्। हस्तात्पतितमालोक्य ननर्त्त परया मुदा। विधेः कपालंनामुञ्चत् करमत्यन्तदुस्त्यजम्। हरस्य भ्रमतः क्वापितत् काश्यां क्षणतोऽपतत्। शूलिनो ब्रह्मणोहत्या नापैतिस्मैव या क्वचित्। सा काश्यां क्षणतोनष्टा कथं काशीन दुर्लभा। वाराणसीति काशीति महामन्त्रमिम-ञ्जपन्। यावज्जीशं त्रिसन्ध्यन्तु जन्तुर्जातु न जायते। अविमुक्तं महाक्षेत्रं न्मरन् प्राणांस्तु यस्त्यजेत्। दूरदेशान्तरस्थोऽपि मोऽपि जातु न जायते। आनन्दकाननंयस्य विचित्रं स्मरते सदा। तत्क्षेत्रनामस्मरणान्न स-भूयोऽभिजायते। रुद्रावासे यसेन्नित्यं नरोनियतमानसःएनसामपि सम्भारं कृत्वा तस्माद्विमुच्यते। महाश्म-शानमासाद्य यदि दैवाद्विपद्यते। पुनः श्मशानशयनंन क्वापि लभते पुमान्। कपालनीचनं काश्यां ये स्मरिःष्यन्ति मानवाः। तेषां विनङ्क्ष्यति क्षिप्रमिहान्यत्राषि पा-तकम्। आगत्य तीर्थमवरे स्नानं कृत्वा विधानतः। तर्पयित्वा पितॄन् देवान् मुच्यते ब्रह्महत्यया”। भैरवमहादेवयोरभेदात् नहादेवे कपालभृत्त्वादिव्यपदेशः।
“कपालमोचनं तीर्थं सर्व्वपापप्रमोचनम्। तत्र स्नात्वानरव्यघ्र! सर्व्वपापैः प्रमुच्यते” भा॰ व॰

८२ अध्याये।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कपालमोचन/ कपाल--मोचन n. N. of a तीर्थMBh. iii , 7007 Hariv. etc.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

--a तीर्थम् sacred to शुद्धि फलकम्:F1: M. १३. ४८.फलकम्:/F of शिव at Banaras. फलकम्:F2: Ib. १८३. १०१.फलकम्:/F

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

Kapālamocana : nt.: See Auśanasa.


_______________________________
*2nd word in right half of page p304_mci (+offset) in original book.

Mahabharata Cultural Index

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

Kapālamocana : nt.: See Auśanasa.


_______________________________
*2nd word in right half of page p304_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=कपालमोचन&oldid=494788" इत्यस्माद् प्रतिप्राप्तम्