कपालाधिकरण
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कपालाधिकरण¦ न॰ जैमिनिसूत्रोक्ते अधिकरणभेदे तच्चा-धिकरणं
४ ,
१ , पादे यथ
“अर्थाभिधानकर्म च भविष्यता संयोगस्य तन्निमित्वाद-र्थो हि विधीयते” र्ज॰ सू॰। दर्शपूर्णमासयोः श्रूय-ते
“कपालेषु पुरोडाशं श्रपयति” इति तथा
“पुरो-डाशकपालेन तुषानुपवपति” इति तत्र संदेहःकिम्? उभयं कपालानि प्रमोजयति? पुरोडाश-श्रपणं तुषोपवापश्च उत श्रपणं प्रयोजकं न तुषोप-वापः? इति किंप्राप्तम्? विनिगमनायां हेतोः अभा-वात् उभयम् इति प्राप्तोउच्यते अर्थाभिघानम् प्रयो-जनसम्बद्धमभिधानं यस्य यथा पुरोडाशकपालम् इतिपुरोडाशार्थकपालं पुरोडाशकपालम् कथम् एतदवगम्वते? पुरोडाशं तावत् तस्मिन् काले नास्ति येनवर्त्तमानः सम्बन्धः कपालेत स्यात् तेनैव हेतुना न-भूतः सएव, कपालस्य पुरोडाशेन भविष्यता समन्धःभविष्यता सम्बन्धश्च तन्निमित्तस्य भवति तस्मात् पुरो-डाशेन प्रयुक्तं यत् कपालं तेन तुषा उपवप्तव्याः इतिकपालं स्यात् न चेत् न, तेन तुषा उपवप्तव्याभवन्तितस्मत् न तुषोपवापः कपालानाम् प्रयोजकः प्रयोजकंतु श्रषणम्” एवञ्च सति चरौ पुरोडाशाभावे यदा तुषा-नुपवप्तुम् कपालमुपादीयते न तत्पुरोडाशम्” भा॰।
