कपिकच्छुः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कपिकच्छुः, स्त्री, (कपीनामपि कच्छुर्यस्याः कण्डू- हेतुत्वात् ।) वृक्षविशेषः । आलकुशी इति भाषा । केओ~याच इति हिन्दाभाषा । तत्पर्य्यायः । आत्म- गुप्ता २ जडा ३ अध्यण्डा ४ कण्डूरा ५ प्राव्रषा- यणी ६ ऋष्यप्रोक्ता ७ शूकशिम्बिः ८ मर्कटी ९ । इत्यमरः । २ । ४ । ८७ ॥ स्वगुप्ता १० । अजहा ११ कण्डुरा १२ प्रावृषायिणी १३ प्रावृषा १४ शूकशिम्बी १५ शूकशिम्बा १६ कपिकच्छूः १७ । इति भरतः ॥ स्वयंगुप्ता १८ महर्षभी १९ लाङ्गली २० कुण्डली २१ चण्डा २२ दुरभिग्रहा २३ कपिरोमफला २४ गुप्ता २५ दुष्पर्शा २६ अजडा २७ प्रावृषेण्या २८ वदरी २९ गुरुः ३० आर्षभी ३१ शिम्बी ३२ वराहिका ३३ तीक्ष्णा ३४ रोमालुः ३५ वन- शूकरी ३६ कीशरोमा ३७ रोमवल्ली ३८ । शूक- शिम्बिः ३९ वानरी ४० कपीकच्छुः ४१ शुक- पिण्डी ४२ शूकपिण्डी ४३ कपिप्रभा ४४ । इति शब्दरत्नावली ॥ अस्या गुणाः । स्वादुरसत्वम् । शुक्रवृद्धिकारित्वम् । वातक्षयपित्तास्रविकृतव्रण- नाशित्वम् । शीतत्वञ्च । तस्या वीजगुणौ । वातश- मनत्वम् । परमवाजीकरत्वञ्च । इति राजनिर्घण्टः ॥ (शूकशिम्बीशब्देऽस्या विशेषश्च ज्ञेयः ॥)
