सामग्री पर जाएँ

कपिञ्जलः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कपिञ्जलः, पुं, (कपिरिव जवते वेगेन गच्छति यद्वा कम् श्रुतिसुखदं शब्दम् पिञ्जयति कपिवत् पिञ्जलो वा । ईषत्पिङ्गलवर्णो हरितालवर्णो वा । पृषो- दरादित्वात् साधुः ।) चातकपक्षी । तन्मांस- गुणाः । लघुत्वम् । शीतत्वम् । कफरक्तपित्तनाशि- त्वम् । अग्निदातृत्वञ्च । इति राजवल्लभः ॥ पक्षि- विशेषः । तत्पर्य्यायः । तेजलः २ ॥ तस्य मांसं शुक्रवृद्धिकरम् । इति राजनिर्घण्टः ॥ तित्तिरि- पक्षी । इति त्रिकाण्डशेषः ॥ (यथा, -- “कपिञ्जल इति प्राज्ञैः कथितो गौरतित्तिरः । कपिञ्जल इति ख्यातो लोके कपिशतित्तिशः” ॥ इति भावप्रकाशः ॥ “पित्तश्लेष्मविकारेषु सरक्तेषु कपिञ्जलाः । मन्दवातेषु शस्यन्ते शैत्यमाधुर्य्यलाघवात्” ॥ इति चरकः । तथा सुश्रुतश्च । “रक्तपित्तहरः शीतो लघुश्चापि कपिञ्जलः । कफोत्थेषु च रोगेषु मन्दवाते च शस्यते” ॥ ऋषिकुमारभेदः । अयन्तुश्वेतकेतुपुत्त्रस्य पुण्डरी- कस्य बन्धुः । यथा कादम्बर्य्यां महाश्वेतोपाख्याने । “सखे ! कपिञ्जल ! किं मामन्यथा सम्भावयसि” ॥)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कपिञ्जलः [kapiñjalḥ], 1 The Chātaka bird; सोमपीथं तु यत्तस्य शिर आसीत्कपिञ्जलः Bhāg.6.9.5.

The Tittiri bird.

"https://sa.wiktionary.org/w/index.php?title=कपिञ्जलः&oldid=260418" इत्यस्माद् प्रतिप्राप्तम्