कपित्थ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपित्थः, पुं, (कपिः तिष्ठति फलप्रियत्वात् लोभात् वा यत्र । कपि + स्था + कः । पृषोदरादित्वात् सलोपे साधुः ।) वृक्षविशेषः । कत्वेल इति भाषा तत्पर्य्यायः । दधित्थः २ ग्राही ३ मन्मथः ४ दधि- फलः ५ पुष्पफलः ६ दन्तशठः ७ । इत्यमरः २ । ४ । २१ ॥ कगित्थः ८ । इति भरतः ॥ मालूरः ९ मङ्गल्यः १० नीलमल्लिका ११ ग्राहिफलः १२ चिरपाकी १३ ग्रन्थिफलः १४ कुचफलः १५ क- पीष्टः १६ गन्धफलः १७ दन्तफलः १८ करभव- ल्लभः १९ काठिन्यफलः २० करञ्जफलकः २१ । अस्यामफलगुणः । अम्लत्वम् । उष्णत्वम् । कफ- नाशित्वम् । ग्राहित्वम् । वायुवर्द्धकत्वम् । कण्ठ- रोगजिह्वाधिकजडताकारित्वम् । त्रिदोषवर्द्धक- त्वम् । विषहरत्वम् । रोचकत्वञ्च । तत्पक्वफल- गुणाः । दोषत्रयहरत्वम् । मधुराम्लरसत्वम् । गुरुत्वम् । श्वासवभिश्रमक्लमहरत्वम् । हिक्काप- नोदक्षमत्वम् । ग्राहित्वम् । रुचिप्रदत्वम् । ततः सर्व्वदा सेव्यम् । इति राजनिर्घण्टः ॥ “कपित्थमामं कण्डघ्नं विषघ्नं ग्राहि वातलम् । मधुराम्लकषायत्वात् सौगन्ध्याच्च रुचिप्रदम्” ॥ इति राजवल्लभः ॥ (तथा च चरके ॥ “कपित्थं विषकण्ठ्यघ्नमामं संग्राहि वातलम् ॥ मधुराम्लकषायत्वात् सौगन्ध्याच्च रुचिप्रदम् । परिपक्वं सदोषघ्नं विषघ्नं ग्राहि गुर्व्वपि” ॥ “कुशद्वीपेश्वरस्य राज्ञो ज्योतिष्मत्संज्ञकस्य सप्त- पुत्त्राणामेकतमः । तद्वर्षमपि तन्नम्ना ख्यातम् । तद्विवरणन्तु विष्णुपुराणे २ यांशे ४ अध्याये द्रष्टव्यम्”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपित्थ पुं।

कपित्थः

समानार्थक:कपित्थ,दधित्थ,ग्राहिन्,मन्मथ,दधिफल,पुष्पफल,दन्तशठ

2।4।21।1।2

अश्वत्थेऽथ कपित्थे स्युर्दधित्थग्राहिमन्मथाः। तस्मिन्दधिफलः पुष्पफलदन्तशठावपि॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपित्थ¦ m. (-त्थः) The elephant or wood apple, (Feronia elephantum.) E. कपि, and त्थ from स्था to stay or abide; the residence of apes.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपित्थः [kapitthḥ], The wood apple tree; Bhāg.8.2.14.

त्थम् The fruit of the above tree.

A particular position of hands and fingers.

Butter-milk (तक) यौवनस्थस्य गौरस्य कपित्थस्य सुगन्धिनः Rām.2.91.72.-Comp. -आस्यः a kind of monkey.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपित्थ m. ( त्थ= स्थ)" on which monkeys dwell " , Feronia Elephantum MBh. Sus3r. etc.

कपित्थ m. a particular position of the hands and fingers

कपित्थ n. the fruit of Feronia Elephantum Sus3r. VarBr2S. etc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--illustrative of the world which is compared to the shape of an egg. Vi. II. 7. २२. [page१-311+ ४९]

"https://sa.wiktionary.org/w/index.php?title=कपित्थ&oldid=494804" इत्यस्माद् प्रतिप्राप्तम्