सामग्री पर जाएँ

कपित्थ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कपित्थः, पुं, (कपिः तिष्ठति फलप्रियत्वात् लोभात् वा यत्र । कपि + स्था + कः । पृषोदरादित्वात् सलोपे साधुः ।) वृक्षविशेषः । कत्वेल इति भाषा तत्पर्य्यायः । दधित्थः २ ग्राही ३ मन्मथः ४ दधि- फलः ५ पुष्पफलः ६ दन्तशठः ७ । इत्यमरः २ । ४ । २१ ॥ कगित्थः ८ । इति भरतः ॥ मालूरः ९ मङ्गल्यः १० नीलमल्लिका ११ ग्राहिफलः १२ चिरपाकी १३ ग्रन्थिफलः १४ कुचफलः १५ क- पीष्टः १६ गन्धफलः १७ दन्तफलः १८ करभव- ल्लभः १९ काठिन्यफलः २० करञ्जफलकः २१ । अस्यामफलगुणः । अम्लत्वम् । उष्णत्वम् । कफ- नाशित्वम् । ग्राहित्वम् । वायुवर्द्धकत्वम् । कण्ठ- रोगजिह्वाधिकजडताकारित्वम् । त्रिदोषवर्द्धक- त्वम् । विषहरत्वम् । रोचकत्वञ्च । तत्पक्वफल- गुणाः । दोषत्रयहरत्वम् । मधुराम्लरसत्वम् । गुरुत्वम् । श्वासवभिश्रमक्लमहरत्वम् । हिक्काप- नोदक्षमत्वम् । ग्राहित्वम् । रुचिप्रदत्वम् । ततः सर्व्वदा सेव्यम् । इति राजनिर्घण्टः ॥ “कपित्थमामं कण्डघ्नं विषघ्नं ग्राहि वातलम् । मधुराम्लकषायत्वात् सौगन्ध्याच्च रुचिप्रदम्” ॥ इति राजवल्लभः ॥ (तथा च चरके ॥ “कपित्थं विषकण्ठ्यघ्नमामं संग्राहि वातलम् ॥ मधुराम्लकषायत्वात् सौगन्ध्याच्च रुचिप्रदम् । परिपक्वं सदोषघ्नं विषघ्नं ग्राहि गुर्व्वपि” ॥ “कुशद्वीपेश्वरस्य राज्ञो ज्योतिष्मत्संज्ञकस्य सप्त- पुत्त्राणामेकतमः । तद्वर्षमपि तन्नम्ना ख्यातम् । तद्विवरणन्तु विष्णुपुराणे २ यांशे ४ अध्याये द्रष्टव्यम्”)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कपित्थ पुं।

कपित्थः

समानार्थक:कपित्थ,दधित्थ,ग्राहिन्,मन्मथ,दधिफल,पुष्पफल,दन्तशठ

2।4।21।1।2

अश्वत्थेऽथ कपित्थे स्युर्दधित्थग्राहिमन्मथाः। तस्मिन्दधिफलः पुष्पफलदन्तशठावपि॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कपित्थ¦ m. (-त्थः) The elephant or wood apple, (Feronia elephantum.) E. कपि, and त्थ from स्था to stay or abide; the residence of apes.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कपित्थः [kapitthḥ], The wood apple tree; Bhāg.8.2.14.

त्थम् The fruit of the above tree.

A particular position of hands and fingers.

Butter-milk (तक) यौवनस्थस्य गौरस्य कपित्थस्य सुगन्धिनः Rām.2.91.72.-Comp. -आस्यः a kind of monkey.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कपित्थ m. ( त्थ= स्थ)" on which monkeys dwell " , Feronia Elephantum MBh. Sus3r. etc.

कपित्थ m. a particular position of the hands and fingers

कपित्थ n. the fruit of Feronia Elephantum Sus3r. VarBr2S. etc.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

--illustrative of the world which is compared to the shape of an egg. Vi. II. 7. २२. [page१-311+ ४९]

"https://sa.wiktionary.org/w/index.php?title=कपित्थ&oldid=494804" इत्यस्माद् प्रतिप्राप्तम्