कपिलधारा
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कपिलधारा¦ स्त्री कपिलेव शुद्धा धारा यस्याः संज्ञात्वात्
“ङापो-रिति” पा॰ ह्रस्वः।
१ गङ्गायां हेमच॰। कपिलानां तदीय-दग्धानां धारा संज्ञायां
“ङ्यापोरिति” पा॰ ह्रस्वः।
२ कपि-[Page1669-b+ 38] लादीनां दुग्धधारायां
३ तत्कृते काश्या उत्तरसौ मास्थेतीर्थभेदे च उपचारात् तयोरभेदात्। तदाविर्भावादि का-शी॰
६२ अ॰।
“एतस्मिन्नन्तरे प्राप्ता गोलोकात् पञ्च धेनवः। सुनन्दा सुमनाश्चापि सुशीला सुरभिस्तथा। पञ्चमी कपिलाचापि सर्व्वाघौघविघट्टिनी। वात्सल्यदृष्ट्या गर्भस्य तासामू-धांसि सुस्नुवुः। ववर्षुः पयसां पूरैस्तदूधांसि पयोधराः। धारासारैरविच्छिन्नस्तावद्यावध्रदोऽभयत्। पयःपयो-धिरिव स द्वितीयः प्रैक्षि पार्श्वदैः। देवेशसमधिष्ठानात्तत्-तीर्थमभवत् परम्। कपिलाहृद इत्याख्यां चक्रे तस्य महे-श्वरः। ततो देवाज्ञया सर्व्वे स्नातास्तत्र दिवौकसः। आ-विरासुस्ततस्तीर्थादथ दिव्यपितामहाः। तान् दृष्ट्वा ते सुराःसर्व्वे तर्पयाञ्चक्रिरे मुदा। अग्निष्वात्ता बर्हिषद आज्यपाःसोमपास्तथा। इत्याद्यादिव्यपितरस्तृप्ताः शम्भुं व्यजिज्ञ-पन्। देवदेव! जगन्नाथ! भक्तानामभयप्रद। अस्मिंस्तीर्थेत्वदभ्यासाज्जाता नस्तृप्तिरक्षया। तस्माच्छम्भो! वरंदेहि प्रसन्नेनान्तरात्मना। इति दिव्यपितॄणां स श्रुत्वा वाक्यंवृषध्वजः। शृण्वतां सर्वदेवानामिदं वचनमब्रवीत्। सर्वः,सर्तपितॄणां वै परं तृप्तिकरं परम्। श्रीदेवदेवौवाच। शृणुविष्णो! महावाहो! शृणु त्वं च पितामह!। एतस्मिन्कापिले तीर्थे कापिलेयपयोभृते। ये पिण्डान् निर्वपिष्यन्तिश्रद्धया श्राद्धदा नराः। तेषां पितॄणां सन्तृप्तिर्भविष्यति ममाज्ञया। अन्यं विशेषं वक्ष्यामि महातृप्तिकरं परम्। कूहूसोमसमायोगे दत्तं श्राद्धमिहाक्षयम्। संवर्त्तकाले-संप्राप्ते जलराशिजलान्यपि। क्षीयन्ते न क्षयं श्राद्धं यातिसोमकूहूकृतम्। अमासोमसमायोगे श्राद्धं यद्यत्र लभ्यते। तीर्थेकापिलधारेऽस्मिन् मयया पुव्करेण किम्। गदाधृक्भगशन् यत्र यत्र त्वं चपितामह!। वृपध्वजोऽस्म्यहंयत्रफल्मुस्तत्र न संशयः। दिव्यान्तरीक्षभौमानि यानि तीर्थानिसर्व्वतः। तान्यत्र निवसिष्यन्ति दर्शे सोमदिनान्विते। कुरुक्षेत्रे नैमिधे च गङ्गासाभर{??}ङ्गमे। ग्रहणे श्राद्धतोयत्स्यात्तत्तीर्थे वार्षभध्वजे। अस्य तीर्थस्य नामानि यानि दिव्यपितामहाः!। तान्यहं कथयिष्यानि भवतां तृप्तिदान्यलम्। मधुस्रवेति प्रघग्रमेषा पुष्करिणी मता। घृतकुल्या त-तोज्ञेया ततोऽणी क्षीरनीरधिः। वृषभध्वजतीर्थञ्च तीर्थंपैतामहं ततः। ततो गदाधराख्यं च पितृतीर्थंततः परम्। सतः कापिलधारं वै सुधाखनिरियं पुनः। ततः शिवगयाख्यं च ज्ञेयं तीर्थमिदं शुभम्। एतानि दशनामानि तीर्थस्यास्य पितामहा। भवतां तृप्तिकारीणि वि{??}[Page1670-a+ 38] नापि श्राद्धतर्पणैः। सूर्य्येन्दुसङ्गमे यत्र पितॄणां तृप्तिका-रकाः। ब्राह्मणान् मोजयिष्यन्ति तेषां श्राद्धमनन्तकम्। श्राद्धे पितॄणां संतृप्त्यै दास्यन्ति कपिलां शुभाम्। येऽत्र,तेषां पितृगणोवसेत् क्षीरोदरोधसि। वृषोत्सर्गः कृतोयैस्तु-तीर्थेऽस्मित् वृषभध्वजे। अश्वमेधपुरोडाशैः पितरस्तैस्तुतर्पिताः। गयातोऽष्टगुणं पुण्यं अस्मिंस्तीर्थे पितामहाः। अमायां सोमयुक्तायां श्राद्धैः कापिलधारिके। येषांगर्भेऽभवत् स्रावोये दन्तजननान्मृताः। तेषां तृर्{??}त्नवेन्नूनंतीर्थे कापिलधारिके। अवृत्तमोञ्जीदामानो ये वाऽदारपरिग्रहाः। तेभ्योनिर्वपितं पिण्डमिह ह्यक्षयतां व्रजेत्। अग्निदाहे मृताये वै नाग्निदाहश्च येषु वै। ते सर्वेतृप्ति-मायान्ति तीर्थे कापिलधारिके। और्द्ध्वदेहिकहीनाये षो-डशभ्राद्धवर्ज्जिताः। ते तृप्तिमधिगच्छन्ति घृतकुल्यां निवापिताः। अपुत्राश्च मृताये वै येषां नास्त्युदकप्रदः। तेऽपि तृप्तिं परां यान्ति मधुस्रवसि तर्पिताः। अपमृत्युमृता-ये वै चौरविद्युज्जलादिभिः। तेषामिह कृतं श्राद्धं जायतेसुगतिप्रदम्। आत्मघातेन निधनं येषामिह विकर्म्मिणाम्। तेऽपि तृप्तिं लभन्तेऽत्र पिण्डैः शिवगयाकृतैः। पितृगोत्रेमृता ये वै मातृपक्षे च ये मृताः। तेषामत्र कृतःपिण्डो-भवेदक्षयतृप्तिदः। पत्नीवर्गे मृताये वै मित्रवर्गे च येमृताः। ते सर्व्वे तृप्तिमायान्ति तर्पिता वार्षभध्वजे। ब्रह्मक्षेत्रविशां वंशे शूद्रबंशेऽन्त्यजेषु च। येषां नामगृहीत्वा यद्दीयते ते समुद्धृताः। तिर्य्यग्योनिश्रिताये वैये पिशाचत्वमागताः। तेऽप्यूर्द्धगतिमयान्ति तृप्ताःकापिलधारिके। ये तु मानुषलोकेऽस्मिन् पितरोमर्त्य-योनयः। ते दिव्ययोनयः स्युर्वै मधुस्रवसि तपिताः। ये दिव्यलोके पितरः पुण्यैर्देवत्वमागताः। ते ब्रह्मलोकेगच्छन्ति तृप्तास्तीर्थे वृषध्वजे। कृते क्षीरमयं तीर्थं त्रे-तायां मधुमत् पुनः। द्वापरे सर्पिषा पूर्ण्णं कलौ जलमयंभयेत्। सीमावहिर्गतमपि ज्ञेयं तीर्थमिदं शुभम्। मध्ये-वाराणसि श्रेष्ठं मम सान्निध्यतो नरैः। काशीख्यितैर्यतोऽ-दर्शि ध्यजोमे वृषलाञ्जनः। वृषध्वजेन नाम्नातः स्थास्य-न्त्यत्र पितामहाः। पितामहेन सहितो गदाधरसमन्वितः। रविणा पार्षदैः सार्द्धं तिष्टामोऽत्र पितामहाः” !। कापिलधारिककापिलघारादयोऽप्यत्र।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कपिलधारा¦ f. (-रा)
1. The Ganges.
2. A holy place, a place of pil- grimage.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कपिलधारा/ कपिल--धारा f. N. of the गङ्गाL.
कपिलधारा/ कपिल--धारा f. N. of a तीर्थL.
