कपिलादान
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कपिलादान¦ न॰
६ त॰ वक्ष्यमाणविधिना कपिलायाः गीर्दानेतद्विधानादि हेमा॰ दा॰ आदित्यपु॰।
“कपिलां ये प्रयच्छन्तिचेलच्छन्नां स्वलङ्कृताम्। स्वर्णशृङ्गीं रौप्यखुरां मुक्ताता-ङ्गूल भूषिताम्। श्वेतवस्त्रपरिच्छन्नां घण्टास्वनरवैर्युताम्। (घण्टास्वनरवैर्घण्टाशब्दकोलाहलैः)।
“सहस्रं योगवांदत्ते कपिलां चापि सुव्रतः। सममेव तयोः पुण्य प्राहब्रह्मविदांवर!। यावन्ति रोमकूपाणि कपिलाङ्गे भवन्तिहि। तावत्कोटिसहस्राणि वर्षाणां दिवि मोदते।
“रुक्मशृङ्गीं रौप्यस्व्वुरां मुक्तालाङ्गूलभूषिताम्। कांस्यो-पदोहनां धेनुं वस्त्रच्छन्नामलङ्कृताम्। दत्त्वाद्विजेन्द्रायनरः स्वर्गलोके महीयते। दशधेनुप्रदानेन तुल्यैका कपि-ला मता” याज्ञवल्क्यः
“हेमशृङ्गी शफैरौप्यैः सुशीलावस्त्रसंथुता। सकांस्यपात्रा दातव्या क्षीरिणी गौः सद-[Page1671-a+ 38] क्षिणा। दातास्याः स्वर्गमाप्नोति वत्सरान् रोमसंमितान्। कपिला पुनस्तारयति भूयस्त्वासप्तमं कुलम्” व्यासः
“रुक्म-शृङ्गीं रौप्यखुरां वस्त्रकांस्योपदोहनाम्। सवत्सां कपिलांदत्त्वा वंशान् सप्तसमुद्धरेत्। यावन्ति तस्या रोमाणि सवत्सा-था भवन्ति हि। मुरभीलोकमासाद्य रमते तावतीः समाः”। लोकोत्तरे
“घण्टाचामरसंयुक्ता किंकिणीजालमण्डिता। दिव्यवस्त्रसमायुक्ता हेमदर्पणभूषिता। पयस्विनी सुशीलाच तरुणी वत्सकान्विता। कपिलैवं प्रदातव्या शिवस्याग्रेविधानतः” दानमन्त्रस्तु मत्स्यपुराणे
“कपिले! सर्वभूतानांपूजनीयाऽसि रोहिणी। तीर्थदेवमयो यस्मादतः शान्तिंप्रयच्छ मे” इति। रोहितवर्ण्णाधिक्यात् रोहिणी। स्वर्ण्णशृङ्गादिमानमुक्तम् हे॰ दा॰ कूर्म्मपु॰
“दश-सौवर्ण्णिके शृङ्गे स्वुराः पञ्चपलान्विताः। पञ्चाशत्प-लिकं ताम्रं कांस्य चैतावदेव तु। वस्त्रन्तु त्रिगुणं धेन्वादक्षिणा च चतुर्गुणा। एतैरलङ्कृतां धेनुं घण्टाभरणभू-षिताम्। कपिलां विप्रमुख्याय दत्त्वा मोक्षमबाप्नुयात्। द्विगुणोपस्करोपेता महती कपिला स्मृता। दत्ता सा विप्र-मुख्याय स्वर्गमोक्षफलप्रदा। सप्तजन्मकृतात् पापान्मुच्यतेदश संयुतः। यान् यान् प्रार्थयते कामांस्तांस्तान् प्राप्नोतिमानवः। अन्ते स्वर्गापवर्गौच फलमाप्नोति संयतः”।
२ समा-नवर्ण्णवत्ससहितकपिलधेनुदाने च
“समान वत् सां कपिलांधेनुं दत्त्वा पयस्विनीम्। सुव्रतां वस्त्रसपन्नाम् ब्रह्मलोकेमहीयते” हेमाद्रिदा॰ भारतवाक्यम्
