सामग्री पर जाएँ

कपिवक्त्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कपिवक्त्रः, (कपेर्वानरस्य वक्त्रमिव वक्त्रं यस्य भागि- नेयपर्ब्बतमुनिशापप्रभावात् मातुलस्य देवषेस्तथा- त्वम् ।) नारदः । इति त्रिकाण्डशेषः ॥ (यथा हि नारदस्य कपिवक्त्रत्वं जातम् तदुच्यते ।

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कपिवक्त्र¦ पु॰ कपेर्वक्त्रमेव वक्त्रमस्य। नारदे त्रिका॰। पर्वतषिशापाच्चास्य तथात्वम् यथाह भा॰ शा॰

३० अ॰।
“नारदः पर्व्वतश्चैव द्वावृषी लोकसत्तमौ। मातुलो भागि-नेयश्च देवलोकादिहागतौ। विहर्त्तुकामौ सम्प्रीत्या मानुषेषुपुस विभो!। हविःपवित्रभोज्येन देवभोज्येन चैव हि। नारदो मातुलश्चैव भागिनेयश्च पर्व्वतः। तावुभौ तप-सोपेताववनीतलचारिणौ। भुञ्जानौ मानुषान् भोगान् यथा-वत्पर्य्यधावताम्। प्रीतिमन्तौ मुदा युक्तौ समयञ्चैव च-क्रतुः। यो मवेद्धृदि सङ्कल्पः शुभो वा यदि वाऽशुभः। अन्योन्यस्य स आख्येयो मृषा शापोऽन्यथा भवेत्। तौतथेति प्रतिज्ञाय महर्षी लोकपूजितौ। सृञ्जयं श्वैत्य-मभ्येत्य राजानमिदमूचतुः। आवां भवति वत्स्यावः क-ञ्चित्कालं हिताय ते। यथावत् पृथिवीपाल! आवयोःप्रगुणीभव। तथैव कृत्वा राजा तौ सत्कृत्योपचचार ह। ततः कदाचित्तौ राजा महात्मानौ तपोधनौ। अब्रवीत्प-रमप्रीतः सुतेयं वरवर्णिनी। एकैव मम कन्या या सा वांपरिचरिष्यति। दर्शनीयाऽनवद्याङ्गी शीलवृत्तसमाहिता। सुकुमारी कुमारी च पद्मकिञ्जल्कसुप्रभा। परमं सौम्य-मित्युक्त ताभ्यां राजा शशास ताम्। कन्ये! विप्रावुप-चर देववत्पितृवच्च ह। सा तु कन्या तथेत्युक्त्वा पितरं धर्म्म-चारिणी। तथा निदेशं राज्ञस्तौ सत्कृत्योपचचार ह। तस्यास्तेनोपचारेण रूपेणाप्रतिमेन च। नारदं हृच्छयस्तूणंसहसैवाभ्यपद्यत। ववृधेहि ततस्तस्य हृदि कामो महात्म-नः। यथा शुक्लस्य पक्षस्य प्रवृत्तौ चद्रमाः शनैः। न च त-म्भागिनेयाय पर्व्वताय महात्मने। शशंस हृदयन्तीव्रं व्रीड-मानः स धर्मवित्। तपसा चेङ्गितैश्चैव पर्वतोऽथ बुबो-ध तम्। कामार्त्तन्नारदं क्रुद्धः शशापैनन्ततो भृशम्। कृत्वा समयमव्यग्रो भवान्वै सहितो मया। यो भवे-द्धृदि सङ्कल्पः शुमो वा यदि वाऽशुभः। अन्योन्यस्य लआख्येय इति तद्वै मृषा कृतम्। भवता वचनं ब्रह्मं-स्तस्मादेष शपाम्यहम्। न हि कामं प्रवर्त्तन्तं भवाना-चष्ट मे पुरा। सुकुमार्य्यां कुमार्य्यां ते तस्मादेष शपा-[Page1672-a+ 38] म्यहम्। ब्रह्मचारी गुरुर्य्यस्मात्तपखी ब्राह्मणश्च सन्। अकार्षीत्समयभ्रं शमावाभ्यां यः कृतो मिथः। शप्स्येतस्मात्सुसंक्रुद्धो भवन्तं तं निबोध मे। सुकुमारी च तेर्भार्य्या भविष्यति न संशयः। वानरञ्चैब ते रूपं विवा-हात्प्रभृति प्रभो!। संद्रक्ष्यन्ति नराश्चान्ये स्वरूपेण विना-ननम्। स तद्वाक्यन्तु विज्ञाय नारदः पर्ब्बतं तथा। अशपत्तमपि क्रोधाद्भागिनेयंस मातुलः। तपसाब्रह्मचर्य्येणसत्येन च दमेन च। युक्तोऽपि नित्यधर्म्मश्च न वै स्वर्गम-वाप्स्यसि। तौ तु शत्या भृशं क्रुद्धो परस्परममर्षणौ। प्रतिजग्मतुरन्योन्यं क्रुद्धाविव गजोत्तमौ। पर्व्वतः पृ-थिवीं कृत्स्नां विचचार महामतिः। पूज्यमानो यथा-न्यायं तेजसा स्वेन भारत!। अथ तामलभत्कन्यां नार-दः सृञ्जयात्मजाम्। धर्म्मेण विप्रप्रवरः सुकुमारोमनि-न्दिताम्। सा तु कन्या यथाशापं नारदं तं ददर्श ह। पाणिग्रहणमन्त्राणां नियोगादेव नारदम्। सुकुमारीच देवर्षिं वानरप्रतिमाननम्। नैवावमन्यत तदा प्रीति-मत्येव चाभवत्। उपतस्थे च भर्त्तारं न चान्यं मनसाऽ-प्यगात्। देवं मुनिं वा यज्ञं वा पतित्वे पतिवत्सला। ततः कदाचिद्भगवान्पर्व्वतोऽनुचचार ह। वनं विरहितंकिञ्चित्तत्रापश्यत्स नारदम्। ततोऽभिवाद्य प्रोवाचनारदं पर्वतस्तदा। भवान् प्रसादं कुरुतात् स्वर्गादेशायमे प्रभो!। तमुवाच ततो दृष्ट्वा पर्बतं नारदस्तथा। कृ-ताञ्जलिमुपासीनं दीनं दीनतरः स्वयम्। त्वयाऽहं प्र-थमं शप्तो वानरस्त्वं भविष्यसि। इत्युक्तेन मया पश्चा-च्छप्तस्त्वमपि मत्व्सरात्। अद्यप्रभृति वै वासं स्वर्गे नावा-स्यसीति ह। तव नैतद्धि सदृशं पुत्रख्याने हि मे भवान्। निवर्त्तयेतां तौ शापावन्योन्येन तदा मुनी। श्रीसमृद्धंतदा दृष्ट्वा नारदं देवरूपिणम्। सुकुमारी प्रदुद्राव पर-पत्यगिशङ्कया। तां पर्व्यतस्ततो दृष्ट्वा प्रद्रपन्तीमनिन्दि-ताम्। अव्रवीत्तव भर्त्तैष नात्र कार्य्या विचारणा। ऋषिः घरमधर्म्मात्मा नारदो भगवत्प्रभुः। तवैवाभेद्यहृ-दयो मा तेऽसूदत्र संशयः। साऽनुमीता बहुविधं पर्ब्ब-तेन महात्मना। शापदोषञ्च तं मर्त्तुः श्रुत्वा प्रकृति-मागता। पर्व्वतोऽथ ययौ स्वर्गम् नारदोऽध्यगमद्गृहान्”। कपिनुखकीशास्यादयोऽप्यत्र।

६ त॰ वानरमुखे न॰।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कपिवक्त्र¦ m. (-क्त्रः) A name of NARADA, a saint and philosopher, and friend of KRISHNA. E. कपि and वक्त्र a face; the saint having a face like a monkey.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कपिवक्त्र/ कपि--वक्त्र m. " monkey-faced " , N. of नारद(a saint and philosopher , and friend of कृष्ण) L.

"https://sa.wiktionary.org/w/index.php?title=कपिवक्त्र&oldid=494823" इत्यस्माद् प्रतिप्राप्तम्