कपिशः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कपिशः पुं, (कपिः वर्णविशेषः अस्त्यस्य कपिनामा- स्यास्ति वा लोमादित्वात् शः ।) श्यावः । कृष्ण- पीतमिश्रितवर्णः । तद्युक्ते त्रि । इत्यमरः १ । ५ । १६ ॥ (यथा, रघुः १२ । २८ । “सन्ध्याभ्रकपिशस्तस्य विराधो नाम राक्षसः । अतिष्ठन्मार्गमावृत्य रामस्येन्दोरिव ग्रहः” ॥ सर्व्ववर्णमयत्वात् शिवः । यथा, महाभारते १३ । शिवसहस्रनामकीर्त्तने १७ । ९७ । “कपिलः कपिशः शुक्लः आयुश्चैव परोऽपरः” ॥) सिह्लकनाम गन्धद्रव्यम् । इति मेदिनी ॥
