सामग्री पर जाएँ

कपोतलुव्धकीय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कपोतलुव्धकीय¦ न॰ कपोतं लुब्धकञ्चाधिकृत्य कृतो ग्रन्थः
“द्वन्द्वाच्छः” पा॰ छ। भारतान्तर्गते गृहस्थस्य प्राणदाने-नाप्यातिथ्यावश्यकर्त्तव्यतासूचके आख्यायिकाभेदे तत्कथाभा॰ शा॰

१४

६ अ॰। (
“स पत्न्या वचनं श्रुत्वा धर्म्मं युक्तिसमन्वितम्। हर्षेणमहता युक्तो बाक्यव्याकुललोचनः। तं वै शाकुनिकंदृष्ट्वा विधिदृष्टेन कर्मणा। स पक्षी पूजयामास यत्नात्तंपक्षिजीविनम्। उवाच स्वागतं तेऽद्य ब्रूहि किं कर-वाणि ते। सन्तापश्च न कर्त्तव्यः स्वगृहे वर्त्तते भवान्। तद्व्रतीतु भवान् क्षिप्रं किं करोमि किमिच्छसि। प्रणयेन ब्रवीमि खां त्वं हि नः शरणागतः। अरावप्युचि-तं कार्य्यमातिथ्यं गृहमागते। छेत्तुमप्यागते छायांनोपसंहरते द्रुमः। शरणागतस्य कर्त्तव्यमातिथ्यं हिप्रयत्नतः। पञ्चयज्ञप्रवृत्तेन गृहस्येन विशेषतः। पञ्च-यज्ञांस्तु यो मीहान्न करोति गृहाश्रये। तस्य नायंन च परो लोको भवति धर्म्मतः। तद्ब्रूहि मां सुवि-श्रब्धो थत्त्वं वाचा यदिष्यसि। तत् करिष्याम्यहं सर्वं[Page1675-b+ 38] मा त्वं शोके मनः कृथाः। तस्य तद्वचनं श्रुत्वा शकुने-र्लुब्धकोऽब्रवीत्। बाधते खलु मे शीतं सन्त्राणं हिविधीयताम्। एवमुक्तस्ततः पक्षी पर्णान्यास्तीर्य्य भूतले। यथाशक्त्या हि पर्णेन ज्वलनार्थं द्रुतं ययौ। गत्वाऽ-ङ्गारककर्मान्तं गृहीत्वाऽग्निमथागमत्। ततः शुष्केषुपर्णेषु पावकं सोऽप्यदीपयत्। स संदीप्तं महत् कृत्वातमाह शरणागतम्। प्रतापय सुविश्रब्धः स्वगात्राण्यकुतोभयः। स तथोक्तस्तथेत्युक्त्वा लुब्धो गात्राण्यतापयत्। अग्निप्रत्यागतप्राणस्ततःप्राह विहङ्गमम्। हर्षेण महताविष्टो वाक्यं व्याकुललोचनः। तथेमं शकुनिं दृष्ट्वा विधि-दृष्टेन कर्म्मणा। दत्तमाहारमिच्छामि त्वया क्षुद्बाधतेहि माम्। स तद्वचः प्रतिश्रुत्य वाक्यमाह विहङ्गमः। न मेऽस्ति विभवो येन नाशयेयं क्षुधान्तव। उत्पन्नेन हि जीवामो वयं नित्यं वनौकसः। सञ्चयो नास्तिचास्माकं मुनीनामिव भोजने। इत्युक्त्वा तं तदा तत्रविवर्णवदनोऽभवत्। कथं नु खलु कर्त्तव्यमिति चिन्ता-परस्तदा। वभूव भरतश्रेष्ठ गर्हयन् वृत्तिमात्मनः। मूहूर्त्ताल्लब्धसंज्ञस्तु स पक्षी पक्षिघातिनम्। उबाचतर्पयिष्ये त्वां मुहूर्त्तं प्रतिपालय। इत्युक्त्वा शुष्कपर्णैस्तुसमुज्ज्वाल्य हुताशनम्। हर्षेण महताविष्टः स पक्षीवाक्यमब्रवीत्। ऋषीणां देवतानाञ्च पितॄणाञ्च महा-त्मनाम्। श्रुतः पूर्ब्बं मया धर्म्मो महानतिथिपूजने। कुरुष्वानुग्रहं सौम्य! सत्यमेतब्रद्वीमि ते। निश्चिता खलुमे बुद्धिरतिथिप्रतिपूजने। ततः कृतप्रतिज्ञो वै पक्षीप्रहसन्निव। तमग्निं त्रिः परिक्रम्य प्रविवेश महामतिः। अग्निमध्ये प्रविष्टन्तु लुब्धो दृष्ट्वा तु पक्षिणम्। चिन्तया-मास मनसा किमिदं वै कृतं मया। अहो मम नृशंसस्यगर्हितस्य स्वकर्मणा। अधर्म्मः सुमहान् धोरो भवि-ष्यति न संशयः। एवं बहुविधं सूरि विललाप सलुव्धकः। गर्हयन् स्वानि कर्माणि द्विजं दृष्ट्वा तथागतम्”।

"https://sa.wiktionary.org/w/index.php?title=कपोतलुव्धकीय&oldid=260884" इत्यस्माद् प्रतिप्राप्तम्