कफघ्नी
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कफघ्नी, स्त्री, (कफं कफविकृतिं हन्तीति । कफ + हन् + टक् + ङीप् ।) हपुषाभेदः । इति राज- निर्घण्टः ॥ (यथा, राजनिर्घण्टे शताह्वादिवर्ग- श्चतुर्थः । “प्लीहशत्रुर्विषघ्नी च कफघ्नी चापराजिता” ॥)
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कफघ्नी¦ कफं तद्विकारं हन्ति टक् ङीप्।
१ हवुसाभेदे राजनि॰।
२ कफहन्तृ{??}यभेदे त्रि॰ तानि द्रव्याणि सुश्रुते दर्शितानि यथा
“आरग्वधमदनगोपधोण्टाकुटजपाठाकण्टकीपाटलामूर्व्वे-न्द्रयवसप्तपर्णनिम्बकुरुण्टकदासीकुरुण्टकगुडूचीचित्रकशा-र्ङ्गष्टाकरञ्जद्वयपटोलकिराततिक्तकानि सुषवी चेति। आरग्बधादिरित्येष गणः श्लेष्मविषापहः”। (
“वरुणार्त्तगलशिग्रौमधुशिग्रुतर्कारीमेषशृङ्गीपूतीकानक्त-मालमोरटाग्निमन्थसैरीयकद्वयविम्बीवसुकवसिरचित्रकशता-वरीविल्वाजशृङ्गीदर्भा वृहतीद्वयञ्चेति। वरुणादिर्गणो-ह्येष कफभेदोनिवारणः”। (
“सालसागाजकर्णखदिरकदरकालस्कन्धक्रमुकभूर्जभेषशृ-ङ्गीतिनिशचन्दनकुचन्दनशिंशपाशिरीषासनधवार्जुनतालशा-कनक्तमालपूतीकाश्वकर्ण्णागुरूणि कालीयकञ्चेति। सा-लसारादिरित्येष गणः कुष्ठविमाशनः। मेहपाण्ड्वा-भयहरः कफमेहविशोषणः”।
“रोध्रसावररोध्रपलाश-कुटन्नटाशोकफञ्जीफट्फलैलवालुकसल्लकीजिङ्गिनीकादम्बमा-लाः कदली चेति। एष रोघ्रादिरित्युक्तो मेदःक-फहरो गणः”।
“अर्कालर्ककरञ्जद्वय{??}गदन्तीमयूरकभार्गी-रास्नेन्द्रपुष्पीक्षुद्रश्वेतागहाश्वेतावृश्चिकाल्यलवणास्तापस-गृक्षश्चेति। अर्कादिको गणो ह्येष कफमेदोविषा-पहः”।
“सुरासाश्वेतसुरसाफणिज्झकार्य्यकगन्धकभूस्तृ-णसुमुखकालमालकासमर्हक्षवकखरपुषपाविडङ्कट्फलसुर[Page1678-a+ 38] सानिर्गुण्डीकुहालोन्दुरुकर्णिकाफञ्जीप्राचीबलकाकमाच्योविषमुष्टिकश्चेति। सुरसादिर्गणो ह्येष कफहृत्कृ-मिसूदनः”।
“पिप्पलीपिप्पलीमूलचव्यचित्रकशृ-ङ्गवेरमरिचहस्तिपिप्पलीहरेणुकैलाजमोदेन्द्रयवपाठाजीरक-सर्षपमहानिम्बफलहिङ्गुभार्गीमधुरसातिविषावचाविडङ्गा-नि कटुरोहिणी चेति। पिप्पल्यादिः कफहरःप्रतिश्यायानिलारुचीः। निहन्याद्दीपनो गुल्मशूलघ्न-श्चामपाचनः”।
“एलातगरकुष्ठमांसीध्यामकत्वक्पत्रनागपु-ष्पप्रियङ्गुहरेणुकाव्याघ्ननखशुक्तिचण्डास्थाणेयकश्रीवेष्टकचो-चचोरकबालकगुग्गुलुसर्जरसतुरुष्ककुन्दुरुकाऽगुरुस्पृक्कोशी-रभद्रदारुकुङ्कुमानि पुन्नागकेशरञ्चेति। एलादिकोवातकफौ निहन्याद्विषमेव च”।
“वृहतीकण्टकारिकाकुटज-फलपाठा मधुकञ्चेति। पाचनीयो वृहत्यादिर्गणः पि-त्तानिलापहः। कफारोचकहृल्लासमूत्रकृच्छ्ररुजापहः”।
“पटोलचन्दनकुचन्द नमूर्व्वागुडूचीपाठाः कटुरोहिणी चे-ति। पटोलादिर्गणः पित्तकफारोचकनाशनः”।
“ऊषकसैन्धवशिलाजतुकासीसद्वयहिङ्गूनि तुत्थकञ्चेतिऊषकादिः कफं हन्ति गणो मेदोविशोवणः।
“मुचा-स्ताहरिद्रादारुहरिद्राहरीतक्यामलकविभीतककुष्ठहैमवतीव-पाठाकटुरोहिणीशर्ङ्गष्टाऽतिविषाद्राविडोभल्लातकानि चि-त्रकश्चेति। एष मुस्तादिको नाम्ना गणः श्लेष्मनिषू-दनः”।
“हरितक्यामलकविभीतकानि त्रिफला। त्रिफला कफपित्तघ्नी मेहकुष्ठविनाशनी”।
“पिप्पलीमरीचशृङ्गवेराणि त्रिकटुकम्।
“त्र्यूषणं कफ-मेदोघ्नं मेहकुष्ठत्वगामयान्। निहन्याद्दीपनं शूलपिनसा-ग्न्यल्पतामपि”।
“आमलकीहरीतकीपिप्पल्यश्चित्रकश्चेति। आमलक्यादिरित्येष गणः सर्वज्वरापहः। चक्षुष्यो दी-पनो वृष्यः कफारोचकनाशनः”।
“लाक्षारेवतकुटजाऽ-श्वमारकट्फलहरिद्राद्वयनिम्बसप्तच्छदमालत्यस्त्रायमाणाचेति। कषायस्तिक्तमधुरः कृफपित्तार्त्तिनाशनः”।
“विल्वाग्निमन्थटुण्टुकपाटलाकाश्मर्य्यश्चेति महत्। सतिक्तंकफवातघ्नं पाके लघ्वग्निदीपनम्। मधुरानुरसञ्चैव पञ्च-मूलं महत् स्मृतम्”।
“कुशकाशनलदर्भकाण्डेक्षुका इतितृणणंज्ञकः। मूत्रदोषबिकारञ्च रक्तपित्तं तथैव च। अन्त्यः प्रयुक्तः क्षीरेण शीघ्रमेव विनाशयेत्। एषां वा-तहरावाद्यावन्त्यः पित्तविनाशनः। पञ्चकौ म्लेष्म-शमनावितरौ परिकीत्तैतौ” इति विशेषव उक्तम्। सामान्यतस्तु तत्रैवोक्तम्
“अम्लंकपित्यं श्लेष्माणं शम-[Page1678-b+ 38] यति रूक्षवीर्य्यत्वात् मधुरं क्षौद्रञ्च”। रसभेदस्य तद्धेतुतातत्रोक्ता।
“ये रसा श्लेष्मशमनाभवन्ति यदि तेषु वै। स्नेहगौरवशैत्यानि बलासं बर्द्धयन्ति ते” (बलास कफम्)तत्पाकपरिपाटी तत्रैवोक्ता।
“श्लेष्मा विदग्धीलवणता-मुपैति” खतेजोनिलजैः श्लेष्मा शमं याति शरीरिणाम्।
“तत्र यैमे गुणा वीर्य्यसंज्ञकाः शीतोष्णस्निग्धरूक्षमृदु-तीक्ष्णपिच्छिलविशदास्तेषां तीक्ष्णोष्णावाग्नेयौ। शीत-पिच्छिलावम्बुगुणभूयिष्ठौ। पृथिव्यम्बुगुणभूयिष्ठः स्नेहः। तोयाकाशगुणभूयिष्ठं मृदुत्वं। वायुगुणभूयिष्ठं रौक्ष्यम्। क्षितिसभीरणगुणभूयिष्ठं वैशद्यम्। गुरुलघुविकावक्त-गुणौ। तत्रोष्णस्निग्धौ वातघौ। शीतमृदुपिच्छिलाःपित्तघ्नाः। तीक्ष्णरूक्षविशदाः श्लेष्मध्नाः गुरुपाको वात-पित्तघ्नः। लघुपाकः श्लेष्मघ्नः। तेषां मृदुशीतोष्णाःस्पर्शग्राह्याः। पिच्छिलविशदौ चक्षुःस्पर्शाभ्याम्। स्नि-ग्धरूक्षौ चाक्षुषौ। शीतोष्णौ सुखदुःखोत्पादनेन। गुरु-पाकं सृष्टविण्मूत्रतया कफोत्क्लेशेन च। लघुर्ब्बद्धविण्मूत्रतया मारुतकोपेन च”।
“तीक्ष्णोष्णं भूत्रलं हृद्यं कफघ्नं कटुपाकि च” सुश्रु॰। त-न्नाशकद्रव्यगुणभेदाः संक्षिप्यान्यत्रोक्ताः।
“गुरुशीत-मुदुस्निग्धमधुरस्थिरपिच्छिलाः। श्लेष्मणः प्रशमं यान्तिविपरीतगुणैर्गुणाः”। तन्निवारणोपाया अन्यत्रोक्तायथा
“रूक्षक्षारकषायतिक्तकटुकव्यायामनिष्ठीवन स्त्रीसेवाध्वनि-युद्धजागररतिक्रीडापदाघातनम्। धूमात्युष्णशिरोविरेकव-मनस्वेदोपनाहादिकं पानाहारविहारभेषजमिदं श्लेष्मा-णमुग्रं जयेत्”। कफहन्तृ कफहादयःश्लेष्महन्तृश्लेष्महादयोप्यत्र त्रि॰।
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कफघ्नी/ कफ--घ्नी f. a particular plant L.
