सामग्री पर जाएँ

कफवर्द्धनः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कफवर्द्धनः, पुं, (कफं कफजनितं विकारं वर्द्धयतीति । कफ + वृध् + णिच् + ल्युः ।) पिण्डीतगरवृक्षः । इति त्रिकाण्डशेषः ॥ श्लेष्मवृद्धिकारके त्रि । इति वैद्यकं ॥ (दिवास्वप्नाव्यायामालसमधुराम्ललवण- शीतस्निग्धगुरुपिच्छिलाभिष्यन्दिहायनकयवनैष- धेत्कटमाषमहामाष-गोधूमतिलपिष्टविकृतिदधि- दुग्धकृशरापायसेक्षुविकारानुपौदकमांसवसाविस- मृणालकशेरुकशृङ्गाटकमधुरवल्लीफलसमशनाध्य- शनप्रभृतिभिः श्लेष्माप्रकोपमापद्यते ॥ “सशीतैः शीतकाले च वसन्ते च विशेषतः । पूर्ब्बाह्ने च प्रदोषे च भुक्तमात्रे प्रकुप्यति” ॥ इति सुश्रुतः ॥)

"https://sa.wiktionary.org/w/index.php?title=कफवर्द्धनः&oldid=123638" इत्यस्माद् प्रतिप्राप्तम्