कबन्धः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कबन्धः पुं, (कं सुखं बध्यते रुध्यतेऽस्मात् । क + बन्ध + घञ् ।) राहुः । रक्षोविशेषः । (यथा, रघुः १२ । ५७ । “बधनिर्द्धूतशापस्य कबन्धस्योपदेशतः । मुमूर्च्छसख्यं रामस्य समानव्यसने हरौ” ॥ अस्य विवरणादिकमुच्यते । पुरा किल दनुनामा कश्चिद्दानवः उग्रेण तपसा पितामहं सन्तोषयन् दीर्घमायुः प्राप्तवान् । प्राप्तदीर्घायुरतिगर्व्वः सुर- राजेन सह योद्धुं सुरपुरमगच्छत् । शक्रस्तु रण- भूमिगतः प्रमुक्तेन वज्रेणास्य सक्थिनी शिरश्च शरीरमध्येप्रावेशयत् । न त्वसौ पितामहवरप्रभा- वतया प्राणान् मुमोच । अथ स एवं विकृत- विग्रहोऽनाहारादितया क्लिश्यमानो बहुधा या- चमानः सुरपतिं प्रसादयामास । इन्द्रस्तु प्रसन्नो यो- जनमायतौ बाहू तीक्ष्णदंष्ट्रञ्च वदनमस्मै वक्षसि प्रादात् । तदा प्रभृत्येवासौ वने विचरन् सुदीर्घ- बाहुभ्यां वनजादीन् प्राणिनो गृहीत्वा भक्षयन् विचचार । अथ गच्छति काले दशरथात्मजो रामः ससीतालक्ष्मणः पितृसत्यपालनार्थं वने भ्रम- न्नमुना कबन्धेन सम्प्राप्तः । प्रभूतबलशालिनानेन गृहीतोऽपि रामः स्वखङ्गेनैनं व्यापादयामास । अथ रामहस्तनाशात् प्राप्तशापमोचनसमयो- ऽयं कबन्धः विकृतरूपं विहाय दिव्यमूर्त्तिधरः स्वर्लोकं ययौ । इति वाल्मीकियरामायणमतम् । महाभारतमते तु अयं विश्वावसुनामा गन्धर्व्व आसीत् ब्राह्मणशापेन राक्षसयोनिं प्राप्तवान् । यदुक्तं तत्रैव ३ । २७८ । ४२ । “तस्याचचक्षे गन्धर्व्वो विश्वावसुरहं नृप ! । प्राप्तो ब्राह्मणशापेन योनिं राक्षससेविताम्” ॥) उदरम् । इति मेदिनी ॥ (केन वायुना बध्यते संबध्यते वा । धूमकेतुः । प्रवहवायुनोपचीयमान- त्वात् तथात्वंतस्य च लोकसुखनाशकत्वं प्रसिद्धम् ॥)
कबन्धः, पुं, क्ली, (केन प्राणवायुना पुनर्बध्यते सम्ब- ध्यते मस्तकहीनस्यापि दैवेन प्राणावेशात् जीव- तो नरस्येव क्रियाकारित्वशक्तित्वात्तथात्वम् । क + बन्ध + घञ् ।) क्रियायुक्तापमूर्द्धकलेवरम् । इत्य- मरः २ । ८ । ११८ ॥ यथा, मार्कण्डेये ८२ । ६३ । “कबन्धाश्छिन्नशिरसः खङ्गशक्त्यृष्टिपाणयः” ॥ अपि च । “नागानामयुतं तुरङ्गनियुतं सार्द्धं रथानां शतं पत्तीनां दशकोटयो निपतिता एकः कबन्धो रणे । तादृक्कोटिकबन्धनर्त्तनविधौ खेलच्चलत् खे शिरस्तेषां कोटिनिपातने रघुपतेः कोदण्डघण्टारवः” ॥ इति प्राचीनाः ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कबन्धः [kabandhḥ] न्धम् [ndham], न्धम् A headless trunk (especially when it retains life); (स्वं) नृत्यत्कबन्धं समरे ददर्श R.7.51, 12.49; शिवातूर्यनृत्यत्कबन्धे Ve.1.27. यस्य नेष्यति वपुः कबन्धताम् Śi.
न्धः The belly; a large belly-like vessel; वसोः कबन्धमृषभो बिभर्ति Av.9.4.3.
A cloud.
A comet.
N. of Rāhu.
Water (said to be n. also in this sense); Śi.16.67.
N. of a mighty demon mentioned in the Rāmāyana. [While Rāma and Lakṣmaṇa lived in the Dandkā forest, Kabandha attacked them and was slain by them. It is said that, though at first a heavenly being, he was cursed by Indra to assume the form of a demon and to be in that state till killed by Rāma and Laksmaṇa. He advised Rāma to form friendship with Sugrīva; see Rām.3.69.27 ff.; वधनिर्धूतशापस्य कबन्धस्योपदेशतः । मुमूर्छ सख्यं रामस्य समानव्यसने हरौ ॥ R.12.57].
