कबन्धम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कबन्धम्, क्ली, (कस्य प्राणवायोः बन्धः आश्रयः । जल- पानमेव प्राणधारणकारणम् । कदापि प्राण- स्थितिः जलं विना नैव स्यात् । यथा, श्रुतिः । “पञ्चदशाहानि माऽशीः काममपः पिनापोमयः प्राणो न पिबतस्ते विच्छेत्स्यते” ।) जलम् । इत्य- मरः । १ । १० । ४ ॥ (यथा, ऋग्वेदे ५ । ८५ । ३ । “नीचीनवारं वरुणः कबन्धं प्रससर्ज रोदसी अन्त- रीक्षम्” ॥)
