सामग्री पर जाएँ

कम्पिल्लकः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कम्पिल्लकः, पुं, (कम्पिल्ल + स्वार्थे + कन् ।) वृक्षवि- शेषः । कमिला इति देशान्तरभाषा । तत्पर्य्यायः । रक्ताङ्गः २ रेची ३ रेचनकः ४ रञ्जकः ५ लोहि- ताङ्गः ६ कम्पिल्लः ७ रक्तचूर्णकः ८ । तस्य गुणाः । विरेचकत्वम् । कटुत्वम् । उष्णत्वम् । व्रणकफ- कासतन्तुकृमिनाशित्वम् । लघुत्वञ्च । इति राज- निर्घण्टः ॥ (अस्य तैलगुणाः । तुम्बीकोशाम्रदन्ती- द्रवन्तीश्यामासप्तला नीलिकाकम्पिल्लकशङ्खिनी- स्नेहास्तिक्तकटुककषाया अधोभागदोषहराः क्रि- मिकफकुष्ठानिलहरा द्ष्टव्रणविशोधनाश्च ॥ इति सुश्रुतः ॥)

"https://sa.wiktionary.org/w/index.php?title=कम्पिल्लकः&oldid=123768" इत्यस्माद् प्रतिप्राप्तम्