कम्बलः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कम्बलः, पु, (कंकुत्सितं शिरो वा कं सलिलं वा बलते बल संवरणे सञ्चारणे च अच् । यद्वा कम्ब + गतौ इति धातोः वृषादित्वात् कलच् ।) स्वनामख्यातमेषादिलोमरचितवस्त्रासनादि । तत् पर्य्यायः । रल्लकः २ । इत्यमरः । २ । ६ । ११६ ॥ वेशकः ३ रोमयोनिः ४ रेणुका ५ । इति शब्द- रत्नावली ॥ प्रावारः ६ । इति जटाधर ॥ (यथा महाभारते ३ । ३ । ५१ । “न तथा सुखयत्यग्निर्न प्रावारा न कम्बलाः । शीतवातार्दितं लोकं यथा तव मरीचयः” ॥) नागराजः । सास्ना । प्रावारः । कृमिः । इत्यमरः । ३ । ३ । १९३ । मेदिनी च ॥ उत्तरासङ्गः । इति मेदिनी ॥ मृगविशेषः । इति जटाधरः ॥ (नागभेदौ । अनयोरेकः अधस्तात् पाताले वासुकि प्रमुखो निवसति अपरस्तु वरुणदेवसभास्थः । यथाक्रमं उदाहरणे द्रष्टव्ये । यथा, भागवते ५ । २४ । ३१ । “ततोऽधास्तात् पाताले नागलोकपतयो वासु- किप्रमुखाः शङ्खकुलिकमहाशङ्खश्वेतधनञ्जयधृत- राष्ट्र शङ्खचूडकम्बलाश्वतरदेवदत्तादयो महाभो- गिनो महामर्षा निवसन्ति” ॥ यथा महाभारते । २ । ९ । ९ । “कम्बलाश्वतरौ नागौ धृतराष्ट्रवलाहकौ” ॥ कम्बलाद्यधिष्टितप्रयागान्तर्वर्त्तितीर्थविशेषः । यथा, महाभारते । ३ । तीर्थयात्रापर्व्वणि ८५ । ७५ । “प्रयागं सप्रतिष्टानं कम्बलाश्वतरौ तथा । तीर्थं भोगवती चैव वेदिरेषा प्रजापतेः” ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कम्बलः [kambalḥ], [Uṇ.1.16]
A blanket (of wool); कम्बलवन्तं न बाधते शीतम् Subhāṣ.; कम्बलावृतेन तेन H.3; Rām.7.1.3.
A dew-lap.
A sort of deer.
An upper garment of wool.
A wall.
A small worm.
N. of a serpent-king.
Covering of an elephant. cf. कम्बलो नागराजे च सास्नायां मृगरोमजे । गज- प्रावरणे चैव ...... Nm. -लम् Water. -Comp. -वाह्यकम् a kind of carriage covered with a coarse blanket, and drawn by oxen.
