कम्बीज
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कम्बीज¦ पु॰ कम्ब--ओज।
१ हस्तिभेदे,
२ शङ्खभेदे मेदि॰
“पञ्चनदंसमारभ्य म्लेच्छाद्दक्षिणपूर्व्वतः। कम्बोजदेशः इत्युक्तः” इयुक्ते
३ देशेच। कम्बोजेजातादि कच्छा॰ अण्। काम्बोज तज्जा-तादौ त्रि॰ मनुष्यतत्स्थयोस्तु वुञ्। काम्बोजको मनुष्यःकाम्बोजकं हसितमित्यादीति भेदः। बहुत्वे तु तस्य लुक्कम्बोजाः कम्बोजजातेषु। काम्बोजस्य राजानः
“कम्बो-जाल्लुक्” पा॰ लुक्। कम्बोजास्तद्राजेषु।
“कम्बोजाःसमरेसोढुं तस्यवीर्य्यभनीश्वराः” रघुः। अत्र काम्बोजाइत्यपपाठः राजनि
“कम्बोजाल्लुक्” पा॰ लुग्विधानात्। कम्बो-जाभिजनपरत्वे दीर्घपाठः समर्थनीयः इत्येके। कम्बो-जीऽभिजनोऽस्य सिन्ध्वा॰ अण्। काम्वोज कम्बोजदेशा-भिजने त्रि॰। अयञ्च देशः वृह॰ स॰ कूर्म्मविभागेनैरृत्यां दिशि कथितः यथा
“नैरृत्यां दिशि देशाः पह्नव[Page1685-a+ 38] कम्बोजसिन्धुसोवीराः मुण्डशब्देन समासे भयूरव्य॰पूर्वनिपांतः कम्बोजमुण्ड इत्येव। कम्बोजदेशस्थक्षत्रियास्तुशनकैः क्रियालोपात् शूद्रत्वमाप्ताः यथाह मनुः।
“शन-कैस्तु क्रियालीपादिमाः क्षत्रियजातयः। वृषलत्वं गतालोके ब्राह्मणादर्शनेन च। षौण्ड्रकाश्चैड्रद्रविडाः क-म्बोक्षाः यवनाः शकाः। पारेदाः पह्नवाश्चीनाः किरातादरदाः खसाः”
