सामग्री पर जाएँ

कम्बुः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कम्बुः, पुं क्ली, (कमु + जत्रादयश्चेति निपातनात् । साधुः । कमु + उन् वुक्चेति वा ।) शङ्खः । इत्यमरः । १ । १० । २३ ॥ (यथा भागवते । ४ । ७ । २० । “कम्ब्बव्जचक्रशरचापगदासिचर्म्म- व्यग्रैर्हिरण्मयभुजैरिव कर्णिकारः” ॥)

कम्बुः, पुं, (कम्ब गतौ इति मृगष्वादित्वात् उन् वुगागमो वा । निपातनात् वा साधुः ॥) वलयम् । (यथा महाभारते ३ । २३२ । ४४ । “शतं दासीसहस्राणि कौन्तेयस्य महात्मनः । कम्बुकेयूरधारिण्यो निष्ककण्ट्यः स्वलङ्कृताः” ॥) शम्बूकः । हस्ती । इत्यमरः । ३ । ३ । १३३ । मेदिनी च ॥ कर्व्वूरवर्णः । ग्रीवा । नलकम् । इति हेमचन्द्रः । फा~पा हाड इति भाषा ॥

"https://sa.wiktionary.org/w/index.php?title=कम्बुः&oldid=123792" इत्यस्माद् प्रतिप्राप्तम्