सामग्री पर जाएँ

करग्रहः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

करग्रहः, पुं, (करः इयं मम भार्य्या इति प्रतिज्ञया गृह्यतेऽत्र वरेणेति यावत् । ग्रह + अधिकरणे अप् ।) विवाहः । इति त्रिकाण्डशेषः ॥ (यथा, आर्य्यासप्तशती । ६०३ । “सा गुणमयी स्वभावस्वच्छा सुतनुः करग्रहायत्ता । भ्रमिता बहुमन्त्रविदा भवता काश्मीरमालव” ॥) करग्रहणञ्च ॥ (यथा, आर्य्यासप्तशती । ६२९ । “सकरग्रहं सरुदितं साक्षेपं सनखमुष्टि सजिगीषम्” ॥)

"https://sa.wiktionary.org/w/index.php?title=करग्रहः&oldid=123846" इत्यस्माद् प्रतिप्राप्तम्