करग्रहारम्भ
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
करग्रहारम्भः, पुं, (करग्रहस्य करादानस्य आरम्भः प्रजाभ्यः ।) राज्ञां प्रजाभ्यो नववर्षीयकरस्य प्रथमा- दानम् । तद्दिनं पुण्याह इति ख्यातम् । तस्याप- भाषा पुण्या । तस्य शुभदिननिरूपणम् यथा, -- “तीक्षोग्रवह्नीतरभेषु लग्ने शीर्षोदये भानुदिने शुभाहे । कुर्य्यादनुक्तानि समीहितानि करग्रहारम्भमपि प्रजाभ्यः” ॥ इति ज्योतिषम् ॥ अस्यार्थः । अश्लेषार्द्राज्येष्ठा- मूलापूर्ब्बफल्गुनीपूर्ब्बाषाढापूर्ब्बभाद्रपदमघाभरणी- कृतिकाभिन्ननक्षत्रेषु । मिथुनसिंहकन्यातुलावृ- श्चिककुम्भमीनलग्नेषु । रविसोमबुधवृहस्पति- शुक्रवारेषु करग्रहारम्भः कर्त्तव्यः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
करग्रहारम्भ¦ पु॰ करग्रहस्य प्रजाभ्यः करादानस्यारम्भः। (पुण्या) वार्षिककरग्रहणारम्भे। करग्रहारम्भदिकनक्षत्रा-दिकं प्रसङ्गादुच्यते
“तीक्ष्णोग्रवह्नीतरभेषु लग्ने शीर्षोदयेभानुदिने शुभाहे। कुर्यादनुक्तानि समीहितान कर-ग्रहारम्भमपि प्रजाभ्यः” ज्यो॰ तुत्र तीक्ष्णगणाः
६ ,
९१
८ ,
१९ आर्द्रादयः, उग्रगणाः पूव्वात्रयमघाःवह्निः[Page1688-a+ 38] कृत्तिका तदितरेषु नक्षत्रेषु। शीर्षोदयाः मिथुन-सिंहकन्यातुलावृश्चिककुम्भमीना तादृशे लग्ने।
