सामग्री पर जाएँ

करग्रहारम्भः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

करग्रहारम्भः, पुं, (करग्रहस्य करादानस्य आरम्भः प्रजाभ्यः ।) राज्ञां प्रजाभ्यो नववर्षीयकरस्य प्रथमा- दानम् । तद्दिनं पुण्याह इति ख्यातम् । तस्याप- भाषा पुण्या । तस्य शुभदिननिरूपणम् यथा, -- “तीक्षोग्रवह्नीतरभेषु लग्ने शीर्षोदये भानुदिने शुभाहे । कुर्य्यादनुक्तानि समीहितानि करग्रहारम्भमपि प्रजाभ्यः” ॥ इति ज्योतिषम् ॥ अस्यार्थः । अश्लेषार्द्राज्येष्ठा- मूलापूर्ब्बफल्गुनीपूर्ब्बाषाढापूर्ब्बभाद्रपदमघाभरणी- कृतिकाभिन्ननक्षत्रेषु । मिथुनसिंहकन्यातुलावृ- श्चिककुम्भमीनलग्नेषु । रविसोमबुधवृहस्पति- शुक्रवारेषु करग्रहारम्भः कर्त्तव्यः ॥

"https://sa.wiktionary.org/w/index.php?title=करग्रहारम्भः&oldid=123850" इत्यस्माद् प्रतिप्राप्तम्