सामग्री पर जाएँ

करञ्ज

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

करञ्जः, पुं, (कं सुखं शिरो जलं वा रञ्जयतीति । क + रञ्ज + णिच् + अण् ।) स्वनामख्यातवृक्षविशेषः । करम्चा इति भाषा । तत्पर्य्यायभेदौ यथा, -- “करञ्जकः स्यात् करजः पत्रसूची फलाशनः । आङ्गारमञ्जी षड्ग्रन्थो मर्कट्यङ्गारवल्लरी । करञ्जभेदाश्चत्वारो विज्ञेया लोकतस्त्विमे” ॥ इति शब्दरत्नावली ॥ अपि च । “चिरविल्वो नक्तमालः करजश्च करञ्जकः । सोमवल्कः कलिङ्गस्तु पूतिकः कलिकारकः ॥ प्रकीर्य्यः पूतिकरजः पट्टिलः सुमना अपि । करञ्जभेदाः षड्ग्रन्थो मर्कट्यङ्गारवल्लरी” ॥ इति जटाधरः ॥ स षड्विधः । तत्र डरकरञ्ज- पर्य्यायः । नक्तमालः २ पूतिकः ३ चिरविल्वकः ४ पूतिपर्णः ५ बद्धफलः ६ रोचनः ७ । इति राज- निर्घण्टः ॥ चिरविल्वः ८ करजः ९ करञ्जकः १० । इत्यमरः । २ । ४ । ४७ ॥ चिरिविल्वः ११ । इति तट्टीका ॥ उदकीर्य्यः १२ । इति रत्नमाला ॥ * ॥ अस्य फलगुणाः । कटुत्वम् । उष्णत्वम् । चक्षुर्हितत्वम् । वातनाशित्वञ्च । इति राजनिर्घण्टः ॥ वातकफ- मेहतनःकृमिकुष्ठनाशित्वञ्च ॥ * ॥ तत्पत्रगुणाः । कफवातार्शःकृमिशोथनाशित्वम् । भेदकत्वम् । पाके कटुत्वम् । वीर्य्योष्णत्वम् । पित्तवर्द्धकत्वम् । लघुत्वञ्च । इति भावप्रकाशः ॥ * ॥ ततैलगुणाः । अतिस्निग्धत्वम् । वातनाशित्वम् । स्थिरदीप्ति- दातृत्वम् । नयनामयवातरोगकुष्टकण्डूविसूचिका- नाशित्वम् । तीक्ष्णत्वम् । उष्णत्वम् । लेपेन नाना- विधचर्म्मदोषनाशित्वञ्च । इति राजनिर्घण्टः ॥ किटिमत्वम् । कृमिनाशित्वम् । रक्तपित्तदोष- कारित्वञ्च । इति राजवल्लभः ॥ * ॥ अथ नाटा- करञ्जपर्य्यायः । प्रकीर्य्यः १ पूतिकरजः २ पूतिकः ३ कलिकारकः ४ । इत्यमरः २ । ४ । ४८ ॥ पूती- करञ्जः ५ सकण्टकः ६ । इति रत्नमाला ॥ * ॥ षड्ग्रन्थः । का~टाकरञ्ज गा~टिया करञ्ज इति भाषा ॥ * ॥ मर्कटी । माकडाकरञ्ज इति भाषा ॥ * ॥ अङ्गारवल्लरी । इत्यमरभरतौ विषकरञ्ज इति भाषा ॥ * ॥ अथ अम्लकरञ्जपर्य्यायः ॥ करमर्द्दी १ वनेक्षुद्रा २ कराम्लः ३ करमर्द्दकः ४ । इति रत्नमाला ॥ कृष्णपाकफलः ५ अविग्नः ६ सुषेणः ७ । इत्यमरः । २ । ४ । ६७ ॥ अस्य फलगुणाः । पिपासानाशित्वम् । रुचिपित्तकारित्वम् । गुरु- त्वञ्च । इति राजवल्लभः ॥ राजनिर्घण्टोक्तगुण- पर्य्यायौ करमर्द्दकशब्दे द्रष्टव्यौ ॥ (यथा, महाभारते ३ । २२९ । ३५ । “पादपानाञ्च या माता करञ्जनिलया हि सा । वरदा सा हि सौम्या च नित्यं भूतानुकम्पिनी । करञ्जे तां नमस्यन्ति तस्मात् पुत्त्रार्थिनो नराः” ॥ किरति विक्षिपति धार्म्मिकानिति । कॄ विक्षेपे + बाहुलकादौणादिकोऽञ्जन्प्रत्ययः । धर्म्मद्वेष्ठरि, त्रि । यथा ऋग्वेदे । १ । ५३ । ८ । “त्वं करञ्जमुत पर्ण्यं बधी- स्तेजिष्ठयातिथिग्वस्य वर्त्तनी” ॥)

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

करञ्ज¦ पु॰ कं शिरः जलं वा रञ्जयति अण्। (करकचा) इतिख्याते वृक्षे। करञ्जपर्य्यायगुणादि भावप्र॰ उक्तं यथा।
“करञ्जो नक्तमालश्च करजश्चिरविल्वकः। घृतपूर्णकरञ्जो-ऽन्यः प्रकीर्यः पूतिकोऽपि च। स चोक्तः पूतिकरजः सो-मवल्कश्च स स्मृतः। करञ्जःकटुकस्तीक्ष्णो वीर्य्योष्णोयोनि-दोषहृत्। कुष्ठोदावर्त्तगुल्मार्शो व्रणकृमिकफापहः। तत्पत्र कफवातार्शःकृमिशोथहरं परम्। भेदनं कटुकंपाके वीर्य्योष्णं पित्तलं लघु। तत्फलं कफवातघ्नं मेहा-र्शःकफकृमिकुष्ठजित्। घृतपूतिकरञ्जोऽपि करञ्जसदृशोगुणैः”। उदकीर्य्यपर्य्याये तु स्त्रीत्वमपि गौरा॰ ङीष्। प्रावप्र॰
“उदकीर्य्यस्तृतीयोऽन्यः षड्ग्रन्थाहस्तिवारुणो। मर्क्कटो वायसी चापि करञ्जी करभञ्जिका”। तद्गुणाश्चतत्रैवोक्ताः
“करञ्जी स्तम्भनी तिक्ता तुवरा कटुकाशिनी। वीर्य्योष्णा वमिपित्तार्शःकृमिकुष्ठप्रमेहजित्”। तत्तैलगुणाश्च।
“करञ्जतैलं सुस्निग्धं वातहृत् स्थिरदीप्तिकृत्। नेत्रा-मयवातरोगकुष्ठकण्डूविसूचिकाः। नाशयेत्तीक्ष्णमु-[Page1688-b+ 38] ष्णञ्च लेपनाच्चर्मदोषहृत्” राजनि॰। स्वार्थे कन् कर-ञ्जकोऽप्यत्र पु॰
“यस्तु प्तंवत्सरं पूर्णं दीपं दद्यात्करञ्जके। सुवर्चलामृलहस्तः प्रजा तस्य विवर्द्धते” मा॰आनु॰

१२

७ अ॰। अन्यमते करञ्जभेदाश्चत्वारः। (डहर-करमचा) (लाटाकरजा) (कां टाकरमचा)” (अम्रकरमचा)इति भाषाप्रसिद्धनामभेदात्
“यत् पर्ण्णपघ्न उत वा कव-ञ्जहे” ऋ॰

१०

१ ॰

४८ ,

८ ।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

करञ्ज¦ m. (-ञ्जः) The name of a plant, commonly Karanja (Galedupa arborea, Rox.) E. क water, and रञ्ज् to colour, अच् affix: see करज। [Page157-b+ 60]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

करञ्जः [karañjḥ], [कं शिरो जलं वा रञ्जयति Tv.] N. of a tree (used in medicinal preparations); Bhāg.3.21.42.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

करञ्ज m. the tree Pongamia Glabra (used medicinally) A1p. Sus3r. MBh. iii

करञ्ज m. N. of an enemy of इन्द्र(slain by this god) RV. i , 53 , 8

Vedic Index of Names and Subjects

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

Karañja, a word which in the Sūtras and later denotes the tree Pongamia glabra, occurs only twice in the Rigveda[] as the name of a foe of Indra, but whether a demon or a man[] is intended remains uncertain.

  1. i. 53, 8;
    x. 48, 8.
  2. Zimmer, Altindisches Leben, 63;
    Ludwig, Translation of the Rigveda, 3, 149;
    Hillebrandt, Vedische Mythologie, 3, 292.
"https://sa.wiktionary.org/w/index.php?title=करञ्ज&oldid=494966" इत्यस्माद् प्रतिप्राप्तम्