करञ्जः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
करञ्जः, पुं, (कं सुखं शिरो जलं वा रञ्जयतीति । क + रञ्ज + णिच् + अण् ।) स्वनामख्यातवृक्षविशेषः । करम्चा इति भाषा । तत्पर्य्यायभेदौ यथा, -- “करञ्जकः स्यात् करजः पत्रसूची फलाशनः । आङ्गारमञ्जी षड्ग्रन्थो मर्कट्यङ्गारवल्लरी । करञ्जभेदाश्चत्वारो विज्ञेया लोकतस्त्विमे” ॥ इति शब्दरत्नावली ॥ अपि च । “चिरविल्वो नक्तमालः करजश्च करञ्जकः । सोमवल्कः कलिङ्गस्तु पूतिकः कलिकारकः ॥ प्रकीर्य्यः पूतिकरजः पट्टिलः सुमना अपि । करञ्जभेदाः षड्ग्रन्थो मर्कट्यङ्गारवल्लरी” ॥ इति जटाधरः ॥ स षड्विधः । तत्र डरकरञ्ज- पर्य्यायः । नक्तमालः २ पूतिकः ३ चिरविल्वकः ४ पूतिपर्णः ५ बद्धफलः ६ रोचनः ७ । इति राज- निर्घण्टः ॥ चिरविल्वः ८ करजः ९ करञ्जकः १० । इत्यमरः । २ । ४ । ४७ ॥ चिरिविल्वः ११ । इति तट्टीका ॥ उदकीर्य्यः १२ । इति रत्नमाला ॥ * ॥ अस्य फलगुणाः । कटुत्वम् । उष्णत्वम् । चक्षुर्हितत्वम् । वातनाशित्वञ्च । इति राजनिर्घण्टः ॥ वातकफ- मेहतनःकृमिकुष्ठनाशित्वञ्च ॥ * ॥ तत्पत्रगुणाः । कफवातार्शःकृमिशोथनाशित्वम् । भेदकत्वम् । पाके कटुत्वम् । वीर्य्योष्णत्वम् । पित्तवर्द्धकत्वम् । लघुत्वञ्च । इति भावप्रकाशः ॥ * ॥ ततैलगुणाः । अतिस्निग्धत्वम् । वातनाशित्वम् । स्थिरदीप्ति- दातृत्वम् । नयनामयवातरोगकुष्टकण्डूविसूचिका- नाशित्वम् । तीक्ष्णत्वम् । उष्णत्वम् । लेपेन नाना- विधचर्म्मदोषनाशित्वञ्च । इति राजनिर्घण्टः ॥ किटिमत्वम् । कृमिनाशित्वम् । रक्तपित्तदोष- कारित्वञ्च । इति राजवल्लभः ॥ * ॥ अथ नाटा- करञ्जपर्य्यायः । प्रकीर्य्यः १ पूतिकरजः २ पूतिकः ३ कलिकारकः ४ । इत्यमरः २ । ४ । ४८ ॥ पूती- करञ्जः ५ सकण्टकः ६ । इति रत्नमाला ॥ * ॥ षड्ग्रन्थः । का~टाकरञ्ज गा~टिया करञ्ज इति भाषा ॥ * ॥ मर्कटी । माकडाकरञ्ज इति भाषा ॥ * ॥ अङ्गारवल्लरी । इत्यमरभरतौ विषकरञ्ज इति भाषा ॥ * ॥ अथ अम्लकरञ्जपर्य्यायः ॥ करमर्द्दी १ वनेक्षुद्रा २ कराम्लः ३ करमर्द्दकः ४ । इति रत्नमाला ॥ कृष्णपाकफलः ५ अविग्नः ६ सुषेणः ७ । इत्यमरः । २ । ४ । ६७ ॥ अस्य फलगुणाः । पिपासानाशित्वम् । रुचिपित्तकारित्वम् । गुरु- त्वञ्च । इति राजवल्लभः ॥ राजनिर्घण्टोक्तगुण- पर्य्यायौ करमर्द्दकशब्दे द्रष्टव्यौ ॥ (यथा, महाभारते ३ । २२९ । ३५ । “पादपानाञ्च या माता करञ्जनिलया हि सा । वरदा सा हि सौम्या च नित्यं भूतानुकम्पिनी । करञ्जे तां नमस्यन्ति तस्मात् पुत्त्रार्थिनो नराः” ॥ किरति विक्षिपति धार्म्मिकानिति । कॄ विक्षेपे + बाहुलकादौणादिकोऽञ्जन्प्रत्ययः । धर्म्मद्वेष्ठरि, त्रि । यथा ऋग्वेदे । १ । ५३ । ८ । “त्वं करञ्जमुत पर्ण्यं बधी- स्तेजिष्ठयातिथिग्वस्य वर्त्तनी” ॥)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
करञ्जः [karañjḥ], [कं शिरो जलं वा रञ्जयति Tv.] N. of a tree (used in medicinal preparations); Bhāg.3.21.42.
