करटः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
करटः, पुं, (कं कुत्सितं रटति शब्दं करोतीति । रट शब्दे + पचाद्यच् ।) काकः । (यथा गङ्गास्तोत्रे । “वरमिह गङ्गातीरे सरटः करटः ।” इति ॥ किरति विक्षिपति मदवारि इति । कॄ + अटन् ।) हस्तिगण्डः । इत्यमरः । ३ । ३ । ३४ ॥ (यथा महाभारते । ३ । २७७ द्रौपदीहरणपर्ब्ब- णि ३८ । “कथं हि भिन्नकरटं पद्मिनं वनगोचरम् । उपस्थाय महानागं करेणुः शूकरं स्पृशेत्” ॥) कुसुम्भवृक्षः । निन्द्यजीवनः । एकादशाहादि- श्राद्धम् । दुर्द्दुरूटः । नास्तिक इति यावत् (अयं तु क्षत्रियभेदाभिप्रायेणोक्तः । तथा च महाभारते ६ । ९ । ६२ । “मालवा वल्लवाश्चैव तथैवापरवर्त्तकाः । कुलिन्दाः कालदाश्चैव दण्डकाः करटास्तथा” ॥) वाद्यविशेषः । इति मेदिनी ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
करटः [karaṭḥ], [किरति मदं, कॄ-अटन् Uṇ.4.81.]
An elephant's cheek; प्रभिन्नकरटौ मत्तौ भूत्वा कुञ्जररूपिणौ Mb.1.21.2.
Safflower.
A crow; Śānti.4.19.
An atheist, unbeliever.
A degraded Brāhmaṇa.
A man of a low profession.
A musical instrument.
The first Śrāddha ceremony performed in honour of a dead man; करट त्वं रट कस्तवापराधः Udb. -टम् Hard. (a variety of coral); Kau. A.2.11.
टा An elephant's cheek.
A cow difficult to be milked. -मुखम् A spot where an elephant's temple bursts; Mb.
