सामग्री पर जाएँ

करणः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

करणः, पुं, शूद्रावैश्ययोर्जातजातिविशेषः । इत्यमरः । २ । १० । २ ॥ अयं लिखनवृत्तिः कायस्थ इति ख्यातः । इति भरतः ॥ यथा, -- “शूद्राविशोस्तु करणोऽम्बष्ठो वैश्याद्विजन्मनोः” । इति ब्रह्मवैवर्त्ते ब्रह्मखण्डे १० अध्यायः ॥ * ॥ अपि च । “कायस्थे साधने क्लीवं पुंसि शूद्राविशोः सुते” । इति करणशब्दार्थे मेदिनो ॥ * ॥ अन्यच्च । “झल्लो मल्लश्च राजन्यात् ब्रात्यान्निच्छिविरेव च । नटश्च करणश्चैव खसद्रविड एव च” ॥ इति मानवे १० । २२ ॥ झल्लोमल्लश्चेति । “क्षत्रि- यात् व्रात्यात् सवर्णायां झल्लमल्लनिच्छिविनट- करणखसद्रविडाख्या जायन्ते । एतान्यप्येकस्यैव नामानि” । इति तट्टीकायां कुल्लूकभट्टः ॥ * ॥ तस्य कर्म्मविपाको यथा, -- “तैलचौरस्तैलकीटो मूर्द्ध्नि कीटस्त्रिजन्मकम् । ततो भवेत् स्वर्णकारो जन्मैकं दुष्टमानसः ॥ तमःकुण्डे वर्षशतं स्थित्वा स्वर्णबणिक् भवेत् । जन्मैकञ्च दुराचारो जन्मैकं करणो भवेत् ॥ विश्वैकलिपिकर्त्ता च भक्ष्यदातुर्धनं हरेत् ॥ कायस्थेनोदरस्थेन मातुर्म्मांसं न खादितम् । तत्र नास्ति कृपा तस्य दन्ताभावेन केवलम् ॥ स्वर्णकारः स्वर्णबणिक् कायस्थश्च व्रजेश्वर । नरेषु मध्ये ते धूर्त्ताः कृपाहीना महीतले ॥ हृदयं क्षुरधाराभं तेषाञ्च नास्ति सादरम् । शतेषु सज्जनः कोऽपि कायस्थो नेतरौ च तौ ॥ सुबुद्धिः शिवयुक्तिश्च शास्त्रज्ञो धर्म्ममानसः । न विश्वसेत्तेषु तात स्वात्मकल्याणहेतवे” ॥ इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ८५ अध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=करणः&oldid=123922" इत्यस्माद् प्रतिप्राप्तम्