करणम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
करणम्, क्ली, (क्रियतेऽनेन । कृ + करणे + ल्युट् ।) साधकतमम् । इत्यमरः । ३ । ३ । ५४ ॥ तत्तु षट्कारकन्तर्गतकारकविशेषः । तस्य लक्षणम् । “क्रियायां साध्यायां बहूनां कारणानां मध्ये कार- णान्तरव्यवधानाभावे यद्वस्तु क्रियानिष्पत्तिकारणं विवक्षितं तस्मिन् करणत्वं प्रकीर्त्तितम् । तेन दात्रेण धान्यं लुनातीत्यत्र हस्तादेः कारणत्वेऽपि दात्रस्यैव करणत्वं विवक्षितम् ॥ तथाचोक्तम् । “कारणाव्यवधानेऽपि क्रिया निष्पत्तिकारणम् । यद्वै विवक्षितं तेषु करणत्वं प्रकीर्त्तितम्” ॥ इति मुग्धबोधटीकायां दुर्गादासः ॥ * ॥ तिथ्यर्द्ध- परिमितववाद्येकादशसंज्ञककालविशेषः । तेषां नामानि । ववः १ वालवः २ कौलवः ३ तैतिलः ४ गरः ५ बणिजः ६ विष्टिः ७ शकुनिः ८ चतुष्पदः ९ किन्तुघ्नः १० नागः ११ । तेषां यथाक्रमेणा- धिष्ठातृदेवाः । इन्द्रः १ कमलजः २ मित्रः ३ अर्य्यमा ४ भूः ५ श्रीः ६ यमः ७ कलिः ८ वृषः ९ फणी १० मारुतः ११ । एकैकस्मिन् तिथौ द्वे द्वे करणे भवतः । तेषां ववादयः सप्त अष्टा- वृत्त्या शुक्लप्रतिपच्छेषार्द्धमारभ्य कृष्णपक्षीयचतु- र्द्दशीप्रथमार्द्धपर्य्यन्तं भवन्ति । शेषाश्चत्वारः कृ- ष्णचतुर्द्दशीशेषार्द्धावधिशुक्लप्रतिपत्प्रथमार्द्धपूर्य्यन्तं नियमेन भवन्ति अतो ध्रुवाणि करणानि । पूर्ब्बे सप्ताध्रुवाणि ॥ तेषामानयनक्रमो यथा । “तिथिर्द्विघ्ना करोनागशिष्टाकरणमादिमे । परे दले तु सैकं तत्करणं ववपूर्ब्बकम्” ॥ इति ज्योतिषम् ॥ * ॥ क्षेत्रम् । गात्रम् । इन्द्रि- यम् । इत्यमरः । ३ । ३ । ५४ ॥ (यथा गीतायां १८ । १४ । “अधिष्ठानं तथाकर्त्ता करणञ्च पृथग्विधम्” ॥) हेतुः । कर्म्म । हस्तलेपः । नृत्यप्रभेदः । गीतवि- शेषः । (तले व्यवस्थापकस्ताडनविशेषः । यदुक्तं राजकन्दर्पेण । “नृत्यवादित्रगीतानां प्रयोगवशभेदिनां । संस्थानं ताडनं रोधः करणानि प्रचक्षते” ॥ अस्य प्रमाणं यथा कुमारे ६ । ४० । “शिखरासक्तमेघानां व्यज्यस्ते यत्र वेश्मनाम् । अनुगर्जितसन्दिग्धाः करणैर्मुरजस्वनाः” ॥) क्रियाभेदः । संवेशनम् । कायस्थः । इति मेदिनी ॥ कायस्थसंहतिः ॥ वर्णानां स्पष्टतादि । योगिना- मासनादि । कृतादि । इति हेमचन्द्रः ॥ (सर्व्वेषा- मादिकारणत्वात् विष्णुः । यथा, महाभारते १३ । १४९ । ५४ । “करणं कारणं कर्त्ता विकर्त्ता गहनो गुहः” ॥ लेख्यपत्रसाक्षिदिव्यादि । यथा मनुः ८ । ४१ । “अर्थेऽपव्ययमानन्तु करणेन विभावितम् । दापयेद्धनिकस्याथ दण्डलेशञ्च शक्तितः” ॥ भावे ल्युट् । कृतिः । यथा रामायणे ४ । १७ । ५६ ॥ “धर्म्मतः शेषकरणे प्रतीक्षिष्यामहे वयम्” ॥)
