करमर्द्द
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
करमर्द्दः, पुं, (करं मृद्गातीति । करकण्डूप्रदत्वात् । मृद्क्षोदे + कर्म्मण्यण् । करेण मृद्यते इति कर्म्मणि अप् वा ।) करमर्द्दकवृक्षः । इति शब्दरत्नावली ॥ (यथा भावप्रकाशे,--अस्य गुणा उक्ताः । “लघुदीर्घफलाभ्यान्तु करमर्द्दद्वयं मतम् । करमर्द्दद्वयं त्वाममम्लं गुरुतृषाहरम् ॥ उष्णं रुचिकरं प्रोक्तं पित्तरक्तकफप्रदम् । तत्पक्वं मधुरं रुच्यं लघुपित्तसमीरजित् ॥ करमर्द्दः सुषेणः स्यात् कृष्णपाकफलस्तथा । तस्माल्लघुफलायास्तु सा ज्ञेया करमर्द्दिका ॥)
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
करमर्द्द¦ पु॰ करं मृद्नाति मृद--अणुप॰ स॰। (पाणियाआमला)वृक्षे राजनि॰। ण्वुल् करमदकोऽप्यत्र। तत्स्पर्शेहि करक-ण्डूरिति तस्य तथात्वम्।
“लघुदीर्घफलाभ्यां तु करमर्द्दद्वयं मतम्। करमर्दद्वयं त्वाममम्लं गुरु तृषाहरम्। उष्ण रुचिकरं प्रोक्तं पित्तरक्तकफप्रदम्। तत् पक्कं मधुरंरुच्यं लघु पित्तसमीरजित्” भाबप्र॰
“करमर्द्दाल्लघुफलासा ज्ञेया करमर्द्दिका” इति तत्रोक्ते लघुफलकेऽत्र स्त्री
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
करमर्द्द¦ m. (-र्द्दः) A small tree (bearing an acid fruit, commonly Karonda or Karinda, (Carissa carondas.) E. कर the hand, and मृद् to destroy, अण् affix; what is pulked by the hand; also with कन् affix, करमर्द्दक and fem. with ङीष् affix करमर्द्दी।