करमर्द्दः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
करमर्द्दः, पुं, (करं मृद्गातीति । करकण्डूप्रदत्वात् । मृद्क्षोदे + कर्म्मण्यण् । करेण मृद्यते इति कर्म्मणि अप् वा ।) करमर्द्दकवृक्षः । इति शब्दरत्नावली ॥ (यथा भावप्रकाशे,--अस्य गुणा उक्ताः । “लघुदीर्घफलाभ्यान्तु करमर्द्दद्वयं मतम् । करमर्द्दद्वयं त्वाममम्लं गुरुतृषाहरम् ॥ उष्णं रुचिकरं प्रोक्तं पित्तरक्तकफप्रदम् । तत्पक्वं मधुरं रुच्यं लघुपित्तसमीरजित् ॥ करमर्द्दः सुषेणः स्यात् कृष्णपाकफलस्तथा । तस्माल्लघुफलायास्तु सा ज्ञेया करमर्द्दिका ॥)
