सामग्री पर जाएँ

करमर्द्दकः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

करमर्द्दकः, पुं, (कर + मृद् + ण्वुल् । करमर्द्द एव स्वार्थे कन् इति वा ।) वृक्षविशेषः । इत्यमर- टीकासारसुन्दरी । पाणि आमला इति भाषा ॥ इति रत्नमालाराजनिर्घण्टादयः । करौन्दा इति करम्चा इति च भाषा ॥ तत्पर्य्यायः । कृष्णपाक- फलः २ अविग्नः ३ सुषेणः ४ । इत्यमरः । २ । ४ । ६७ ॥ कृष्णपाकः ५ पाकफलः ६ कृष्णकलः ७ पाककृष्ण- फलः ८ कृष्णफलपाकः ९ पाककृष्णः १० फल- कृष्णः ११ पाकफलकृष्णः १२ वनालयः १३ वला- लकः १४ कराम्बुकः १५ वोलः १६ वशः १७ आ- विग्नः १८ । इति तट्टीकायां भरतः ॥ करमर्द्दी १९ वनेक्षुद्रा २० कराम्लः २१ । इति रत्नमाला ॥ करमर्द्द्वः २२ पाणिमर्द्दः २३ । तद्व्रालफलगुणाः । तिक्तत्वम् । अम्लत्वम् । दीपनत्वम् । दाहदातृत्वञ्च । तत्पक्वफलगुणः । त्रिदोषशभनत्वम् । अरुचि- विषनाशित्वञ्च । इति राजनिर्घण्टः ॥ पिपासा- नाशित्वम् । अम्लत्वम् । रुचिपित्तकारित्वम् । गुरुत्वञ्च । इति राजवल्लभः ॥ (यथा, वाभटः । “गुरूष्णवीर्य्यं वातघ्नं सरञ्च करमर्दकम्” ॥)

"https://sa.wiktionary.org/w/index.php?title=करमर्द्दकः&oldid=124028" इत्यस्माद् प्रतिप्राप्तम्