करमाला
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
करमाला, स्त्री, (कराङ्गुलीभिर्मालयेव जपनात् कर- रूपा माला । कराङ्गुल्य मालेव वा ।) करपर्ब्ब- रूपमाला । यथा, “अनामिकात्रयं पर्ब्ब कनिष्ठात्रितयं तथा । तर्ज्जनीमूलपर्य्यन्तं करमाला प्रकीर्त्तिता” ॥ इति मुण्डमालातन्त्रे सामान्यविषयम् ॥ * ॥ “तर्ज्जनी मध्यमानामा कनिष्ठा चेति ताः क्रमात् । तिस्रोऽङ्गुल्यस्त्रिपर्ब्बाणो मध्यमा चैकपर्ब्बिका । पर्ब्बद्वयं मध्यमाया मेरुत्वेनोपकल्पयेत्” ॥ इति शिवरहस्यीयं शक्तिभिन्नविषयम् ॥ * ॥ “अनामामूलमारभ्य कनिष्ठादिक्रमेण तु । तर्ज्जनीमध्यपर्य्यन्तमष्टपर्ब्बसु संजपेत्” ॥ इति सनत्कुमारसंहितावचनं शक्तीतरेषामष्ट- वारविषयम् ॥ * ॥ “अनामिकात्रयं पर्ब्ब कनिष्ठा च त्रिपर्ब्बिका । मध्यमायाश्च त्रितयं तर्ज्जनीमूलपर्ब्बिका ॥ करमाला समाख्याता आरभ्यानामिकान्तरात् । तर्ज्जन्यग्रे तथा मध्ये यो जपेत् स तु पापकृत्” ॥ इति शक्तिविषये मुण्डमालातन्त्रम् ॥ * ॥ तथा । “अनामामूलमारभ्य प्रादक्षिण्यक्रमेण तु । मध्यमामूलपर्य्यन्तं जपेदष्टसु पर्ब्बसु” ॥ इदमपि शक्तिविषये अष्टवारपरम् । इति श्या- मारहस्यम् ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
करमाला¦ स्त्रो करः कराङ्गुलिपर्व मालेव जपसंख्याहेतु-त्वात्।
“आरभ्यानामिकामध्यं दक्षिणावर्त्तयोगतः। तर्जनीमूलपर्य्यन्तं करमाला प्रकीर्त्तिता” इत्युक्तलक्षणायांजपसंख्यार्थं कराङ्गुलिपर्वरूपायां मालायाम्। अत्रविशेषस्तन्त्रसा॰ उक्तः यथा सनत्कुमारसंहितायाम्
“तर्ज्जनी मध्यमानामा कनिष्ठा चेति ताः क्रमात्। ति-स्रोऽङ्गुल्यस्त्रिपर्वाणो मध्यमा चैकपर्विका। पर्वद्वयंसध्यमाया मेरुत्वेनोपकल्पयेत्”। क्रममाह तत्रैव
“अनामामध्यमारभ्य कनिष्ठादित एव च। तर्जनीमूल-पर्य्यन्तं दशपर्वसु सं जपेत्”। तत्रैव।
“अनामामूलमारभ्य[Page1696-b+ 38] कनिष्ठादित एव च। तर्जनीमध्यपर्य्यन्तमष्टपर्वसु संज-पेत्”। एतद्वचनन्तु अष्टोत्तरशतविषयम् विष्णुविषयञ्च। शक्तिविषये पुनः
“अनामिकात्रयं पर्व कनिष्ठा च त्रि-पर्विका। मध्यमायाश्च त्रितयं तर्ज्जनीमूलपर्वणि। तर्जन्यग्रे तथा मध्ये यो जपेत् स तु पापहृत्”। अन्यच्च
“अवामामूलमारभ्य प्रादक्षिण्यक्रमेण च। मध्यमा-मूलपर्य्यन्तं संजपेदष्टपर्वसु”। इदमपि अष्टोत्तरशत-विषयम्। हंसपारमेश्वरे
“र्पवत्रयमनामायाः परि-वर्त्तोन वै क्रमात्। पर्वत्रयं मध्यमायास्तर्जन्येकंसमाहरेत। पर्वद्वयन्तु तर्ज्जन्याः मेरुंतद्विद्धि पार्वति!। शक्तिमाला समाख्याता सर्वतन्त्रप्रदीपिता। श्रीविद्या-यामयं विशेषः।
“अनामामूलमारभ्य प्रादक्षिण्यक्रमेणच। मध्यमामूलपर्य्यन्तं दशपर्वसु संजपेत्”। अन्यच्च
“मध्यमाया अनामाया मूलाग्रञ्च द्वयं द्वयम्। कनिष्ठा-याश्च तर्ज्जन्यास्त्रयं पर्व महेश्वरि!। अनामामध्यम-योश्च मेरुःस्यात् द्वितयं शुभम्। प्रादक्षिण्यक्रमाद्देवि। जपेत् त्रिपुरसुन्दरीमिति” यामलात्
“कनिष्ठामूलमारभ्यप्रादक्षिण्यक्रमेण तु। तर्ज्जनीमूलपर्य्यन्तं जपदष्टसु प-र्वसु” इति श्रीक्रमवचनाच्च। इदमपि तथैव। मुण्ड-मालातन्त्रे
“अनामिकाद्वयं पर्व कनिष्ठादिक्रमेणतु। तर्जनीमूलपर्य्यत्तं करमाला प्रकीर्त्तिता। अङ्ग-लीं न वियुञ्जीत किञ्चिदाकुञ्चिते तले। अङ्गुलीनां वि-योगाच्च छिद्राच्च स्रवते जपः”। अन्यत्रापि।
“अङ्गुल्यग्रेच यज्जप्तं यज्जप्तं मेरुलङ्घने। पर्वसन्धिषु यज्जप्तं तत्-सर्वं निष्फलं भवेत्। गणनाविधिमुल्लङ्घ्य यो जपेत् त-ज्जपं यतः। गृह्णन्ति राक्षसास्तेन गणयेत् सर्वथा बुधः। जपसंख्या तु कर्त्तव्या नासंख्यातं जपेत् सुधीः। असं-ख्याकारकस्यास्य सर्वं भवति निष्फलम्। हृदये हस्तमा-रोप्य तिर्य्यक् कृत्वा कराङ्गुलीः। आच्छाद्य वासमा हस्तौदक्षिणेन सदा जपेत्”। गायत्रीजपे विशेषः विधानपा॰गायत्रीहृदये
“अनामिकामध्यरेखावध्यधः प्रक्रमेण च। तर्ज्जन्थादिगतान्ते च अक्षमाला करे स्थिता” अना-मिकाया मध्यरेखामादिं कृत्वा तर्जन्या आदिरेखा अन्तेयस्याः सेयं करे स्थिता मालेत्यर्थः विघानपा॰। तत्रैवयमः।
“सहस्रपरमां देवीं शतमध्यां दशाबराम्। गा-यत्रीं तु जपेन्नित्थं सर्वकलमषनाशिनीम्। पर्व{??}स्त जपे-द्देवीमन्यत्रानियमः स्मृतः। गायत्र्यावेदकज{??}वात्गदितं ब्रह्मणा स्वयम्। अङ्गष्ठाग्रेण यज्जप्तं बज्जप्तं[Page1697-a+ 38] मेरुलङ्घतात्। असंख्यातं तथा जप्तं तत्मर्वं निष्फलंभवेत्” मदनपारिजाते तु मध्यमाया द्वयं पर्वेतिपाठः। आ॰ त॰ शङ्खः।
“तिस्रोऽङ्गुल्यस्त्रिपर्व्वाणो मध्यमाचैकपर्विका। अनामामध्यमारभ्य जप एवमुदाहृतः” काग्ये मालाऽभावे एवास्याग्राह्यता नित्ये तु सर्वथैव ग्रा-ह्यता यथाह योगिनीत॰।
“नित्यं जपं करे कुर्य्यान्न-काम्यमवरोधनात्। काम्यमपि करे कुर्य्यात् मालाऽभावेप्रियंवदे!। तत्राङ्गुल्या जपं कुर्य्यात् साङ्गुष्ठाङ्गुलिभि-र्जपेत्। अङ्गुष्ठेन विना कर्म कृतं तन्निष्फलं भवेत्” उत्पत्तितन्त्रे
१ प॰
“नित्यं नैमित्तिकं काम्यं करे कुर्य्या-द्विचक्षणः। करमाला महादेवि! सर्वदोषविवर्जिता। छिन्नभिन्नादिदोषोऽपि करे नास्ति कदाचन। अक्षया तुकरे देवि! माला भवति तादृशी। ग्रन्थिः सा कुण्डली-शक्तिः पञ्चाशद्वर्ण्णरूगिणी। अतएव महेशानि! कर-माला महाफला”। ततश्च दक्षिणेनेति प्रागुक्तेः दक्षह-स्तपर्वमिरेव दशसंख्यजपः कार्य्यः। शतादिजपे तुदक्षिणहस्तेन कृतजपदशसंख्यायाः प्रत्येकं दशकसं-ख्यागणना वामहस्तस्थितनिर्द्दिष्टपर्व्वक्रमेण कार्य्या तथाच दशकस्य दशकेन गणने शतसंख्यापूर्त्तिः। अधिकाष्टसंख्या तु दक्षहस्तेर्नव प्रागुक्तरीत्य कार्य्योति तत्त्वम्।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
करमाला¦ f. (-ला) The hand used as a rosary, the joints of the fingers corresponding to the beads. E. कर, and माला a rosary.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
करमाला/ कर--माला f. the hand used as a rosary (the joints of the fingers corresponding to the beads) Tantras. etc.
