सामग्री पर जाएँ

करवीरः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

करवीरः, पुं, (करं वोरयति । वीर + विकान्तौ + कर्म्म ण्यण् ।) खड्गः । देत्यविशेषः । इति मेदिनी ॥ श्मशानम् । इति हेमचन्द्रः ॥ ब्रह्मावर्त्ते दृशद्वती- नदीतीरे चन्द्रशेखरराजपुरम् । इति कालिका- पुराणे ४६ अध्यायः ॥ (पर्ब्बतविशेषः । यथा, भागवते ५ । १६ । २८ । “एवमपरेण पवनपारियात्रौ दक्षिणेन कैलास करवीरौ प्रगायतौ” ॥ नागविशेषः । यथा, महाभारते १ । ३५ । १२ । “करवीरः पुष्पदंष्ट्रो विल्वको विल्वपाण्डरः” ॥) वृक्षविशेषः । करवी इति भाषा ॥ (यथा रामायणे ३ । १७ । १० । “दाडिमान् करवीरांश्च अशोकांस्तिलकांस्तथा” ॥) तत्पर्य्यायः । प्रतिहासः २ शतप्रासः ३ चण्डातः ४ हयमारकः ५ । इत्यमरः । २ । ४ । ७६ ॥ प्रतीहासः ६ । इति तट्टीका ॥ अश्वघ्नः ७ हयारिः ८ अश्व- मारकः ९ शीतकुम्भः १० तुरङ्गारिः ११ । इति रत्नमाला ॥ अश्वहा १२ वीरः १३ हयमारः १४ हयघ्नः १५ शतकुन्दः १६ अश्वरोधकः १७ वीरकः १८ कुन्दः १९ शकुन्दः २० श्वेतपुष्पकः २१ अश्वा- न्तकः २२ नखराह्वः २३ अश्वनाशनः २४ स्थल- कुमुदः २५ दिव्यपुष्पः २६ हरिप्रियः २७ गौरी- पुष्पः २८ सिद्धपुष्पः २९ । अस्य गुणाः । कटु- त्वम् । तीक्ष्णत्वम् । कुष्ठकण्डूतिनाशित्वम् । व्रणा- र्त्तिविषविस्फोटकशमनत्वम् । अश्वमृतिप्रदत्वञ्च । इति राजनिर्घण्टः ॥ (श्वेतरक्तभेदेन यथा, -- “करवीरः श्वेतपुष्पः शीतकुम्भोऽश्वमारकः । द्वितीयो रक्तपुष्पश्च चण्डातो लगुडस्तथा ॥ करवीरद्वयं तिक्तं कषायं कटुकञ्च तत् । व्रणलाघवकृन्नेत्रकोपकुष्ठव्रणापहम् । वीर्य्योष्णं क्रिमिकण्डूघ्नं भक्षितं विषवन्मतम्” ॥ इति भावप्रकाशः ॥ नागविशेषः । इति भारतम् ॥)

"https://sa.wiktionary.org/w/index.php?title=करवीरः&oldid=124074" इत्यस्माद् प्रतिप्राप्तम्