करालः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
करालः, पुं, (करं आलाति गृह्नाति । आ + ला + कः । कराय क्षेपाय अलति पर्य्याप्नोति वा ।) सर्जरसयुक्ततैलम् । इति मेदिनी ॥ गर्जनतेल इति भाषा ॥ तैले घृते वा पक्ववेसवारः । इति पाकराजेश्वरः ॥ (क्वचित् क्लीवेऽपि दृश्यते । यथा, “तप्तस्नेहे पचेत् पूर्ब्बं वेसवारकसंज्ञकम् । पाकप्रापितसौरभ्यं करालं सूदकैर्मतम्” ॥ गन्धर्व्वभेदः ॥ यथा, महाभारते । १ । १२३ । ५४ । “सद्धा वृहद्धा वृहकः करालश्च महामनाः” ॥)
करालः, त्रि, (कराय क्षेपाय भयप्रदर्शनाय अलति यर्य्याप्नोति ।) दन्तुरः । दे~तो इति भाषा ॥ (यथा, “कराल वदनां घोरां मुक्तकेशीं चतुर्भुजां” । इति चामुण्डाध्यानम् ॥) तुङ्गः । उचु इति भाषा ॥ भीषणः । इति मेदिनी ॥ भयानक इति यावत् ॥ (यथा, रघुः । १२ । ९८ । “तद्व्योम्नि शतधा भिन्नं ददृशे दीप्तिमन्मुखम् । वपुर्महोरगस्येव करालफणमण्डलम्” ॥)
