सामग्री पर जाएँ

करीरः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

करीरः, पुं क्ली, (किरति विक्षिपति स्वदेहजावर- णादीनिति । “कॄशॄपॄ कटिपटि शौटिभ्य ईरन्” । उणां । ४ । ३० । इति ईरन् ।) वंशाङ्कुरः । इत्य- मरः । ३ । ३ । १७३ ॥ वा~शेर को~डा इति भाषा ॥ (यथा, माघे ४ । १४ । “रत्नैः पुनर्यत्र रुचा रुचंस्वा- मानिन्यिरे वंशकरीरनीलैः” ॥ “वंशशब्दस्याम्लानताहेतोरलूनतायाः प्रतिपत्य- र्थत्वादपौनरुक्त्यम् ॥ अतएवैकार्थपदमप्रयोज्यमि- त्युक्त्वा करिकलभकर्णावतंसादिषु प्रतिपत्तिविशे- षकरेषु न दोष इत्याह वामनः” ॥ इति तट्टी- कायां मल्लिनाथ ॥) अस्य गुणाः । श्लेष्मनाशित्वम् । कषायत्वम् । दाह- जनकत्वञ्च । इति राजवल्लभः ॥ (यथाह वाभटः । “करीरमाध्मानकरं कषायस्वादुतिक्तकम्” ॥ “वेणोः करीराः कफला मधुरा रसपाकतः । विदाहिनो वातकराः स कषाया विरूक्षणाः” ॥ इति सुश्रुतः ॥)

करीरः, पुं, (कीर्य्यते क्षिप्यते जलमत्र “कॄशॄपॄक- टीति” ईरन् । उणां । ४ । ३० ।) घटः । इति मेदिनी ॥ (कीर्य्यते दूरे निक्षिप्यते दूरतः त्यज्यते कण्टकादिभयादिति यावत् ।) मरुभूमिज उष्ट्र- प्रियः कण्टकिवृक्षः । करील इति भाषा ! तत्- पर्य्यायः । क्रकरः २ ग्रन्थिलः ३ । इत्यमरः । २ । ४ । ७७ ॥ क्रकचः ४ । इति तट्टीका ॥ निष्पत्रिका ५ करिरः ६ गूढपत्रः ७ करकः ८ तीक्ष्णकण्टकः ९ । अस्य गुणाः । (यथा भावप्रकाशे । “करीरः कटुकस्तिक्तः स्वेद्युष्णो भेदनः स्मृतः । दुर्नामकफवातामगरशोथव्रणप्रणुत्” ॥) आध्मानकारित्वम् । कषायत्वम् । कटुत्वम् । उष्ण- त्वम् । अतिशयकफकारित्वम् । श्वासानिलारो- चकसर्व्वशूलविच्छर्द्दिखर्जूव्रणदोषनाशित्वञ्च । इति राजनिर्घण्टः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

करीरः [karīrḥ], [कॄ-ईरन् Uṇ.4.3]

The shoot of a bamboo; जितकरीरशरीरमरीरमत् । स्वकमिता कमितारमवामताम् ॥ Rām. Ch.4.84.

A shoot in general; आनिन्यिरे वंशकरीरनीलैः Śi.4.14. N.5.14.

A thorny plant growing in deserts and eaten by camels; पत्रं नैव यदा करीरविटपे दोषो वसन्तस्य किम् Bh.2.93; cf. also किं पुष्पैः किं फलैस्तस्य करीरस्य दुरात्मनः । येन वृद्धिं समासाद्य न कृतः पत्रसंग्रहः Subhāṣ.

A water-jar.

रा, री The root of an elephant's tusk.

A cricket, a small grass-hopper. -Comp. -विशेषः A kind of flower; 'करवीरं करीरं तु' Ak.

"https://sa.wiktionary.org/w/index.php?title=करीरः&oldid=262983" इत्यस्माद् प्रतिप्राप्तम्