करुणविप्रलम्भः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
करुणविप्रलम्भः, पुं, (करुणयुक्तो विप्रलम्भः ।) पूर्ब्ब- रागादिचतुर्भेदविप्रलम्भशृङ्गारमध्ये विप्रलम्भवि- शेषः । अस्य लक्षणम् । यथा साहित्यदर्पणे ३ परिच्छेदे १९३ । “यूनोरेकतरस्मिन् गतवति लोकान्तरं पुनर्लभ्ये । विमनायते यदैकस्तदा भवेत् करुणविप्रलम्भाख्यः” ॥ यथा, कादम्बर्य्याम् । “पुण्डरीकमहाश्वेतावृत्तान्ते पुनरलभ्ये शरीरान्तरे वा लभ्ये करुणाख्य एव रसः ॥ किञ्चात्राकाशसरस्वतीभाषानन्तरमेव शृङ्गारः । सङ्गमप्रत्याशायां रतेरुद्भावात् प्रथ- मस्तु करुण एवत्यभियुक्ता मन्यन्ते यच्चात्र सङ्गम- प्रत्याशानन्तरमपि भवतो विप्रलम्भशृङ्गारस्य प्रवासाख्यो भेद एवेति केचिदाहुः तदन्ये मरण- रूपविशेषसम्भवात्तद्भिन्नमपि मन्यन्ते” ॥
