करेणुः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
करेणुः, पुं, (“कृहृभ्यामेनुः” । उणां । २ । १ । इति कृ + एनुः । के मस्तके रेणुः पांशुर्यस्य वा । मस्तके शुण्डाकृष्टधूलीनिक्षेपणात् तथात्वम् ।) हस्ती । इत्यमरः । ३ । ३ । ५२ ॥ (यथा माघे १२ । ५ । “उत्क्षिप्तगात्रः स्म विडम्बयन्नभः समुत्पतिष्यन्तमगेन्द्रमुच्चकैः । आकुञ्चितप्रोहनिरूपितक्रमं करेणुरारोहयते निषादिनम्” ॥) कर्णिकारवृक्षः । इति विश्वः ॥
करेणुः, स्त्री, (कृ + एनुः ।) हस्तिनी । इत्यमरः । ३ । ३ । ५२ ॥ (यथा रामायणे २ । ४० । २९ । “शुश्रुवे चाग्रतः स्त्रीणां रुदतीनां महास्वनः । यथा नादः करेणूनां बद्धे महति कुञ्जरे” ॥ अस्या दुग्धगुणा यथोक्ताः सुश्रुते । “हस्तिन्याः [दुग्धं] मधुरं वृष्यं कषायानुरसं गुरु । स्निग्धं स्थैर्य्यकरं शीतं चक्षुष्यं बलवर्द्धनम्” ॥)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
करेणुः [karēṇuḥ], [कृ-एणु Uṇ.2.1; के मस्तके रेणुरस्य Tv.] An elephant in general; करेणुरारोहयते निषादिनम् Śi.12.5,5.48
The Karṇikāra tree. -णुः, -णूः f.
A female elephant; स घर्मतप्तः करिभिः करेणुभिः Bhāg.8.2.23; ददौ रसात्पङ्कजरेणुगन्धि गजाय गण्डूषजलं करेणुः Ku.3.37; R.16,16.
N. of the mother of Pālakāpya.
N. of a medicinal plant. -Comp. -भूः, -सुतः N. of Pālakāpya the founder of the science of elephants.
