सामग्री पर जाएँ

कर्कटशृङ्गी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कर्कटशृङ्गी, स्त्री, (कर्कटस्य शृङ्गमिव दंशकमिवे- त्यर्थः शृङ्गमग्रभागो यस्याः ।) वृक्षविशेषः । का~क- डाशिङ्गी इति भाषा । तत्पर्य्यायः । कर्कटाख्या २ महाघोषा ३ शृङ्गी ४ कुलीरशृङ्गी ५ चक्राङ्गी ६ कुलिङ्गी ७ कासनाशिनी ८ । इति रत्नमाला ॥ घोषा ९ वनमूर्द्धजा १० चक्रा ११ शिखरी १२ कर्कटाङ्गा १३ कर्कटी १४ विषाणिका १५ कौलीरा १६ चन्द्रास्पदा १७ बलाङ्गा १८ । अस्या गुणा । तिक्तत्वम् । गुरुत्वम् । उष्णत्वम् । वायुहिक्काति- सारकासश्वासपित्तास्रनाशित्वञ्च । इति राज- निर्घण्टः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कर्कटशृङ्गी¦ स्त्री कर्कट इव शृङ्गं यस्याः। (कांकडाशिङा)

१ वृक्षभेदे। स्वार्थे कन् कर्कटशृङ्गिकाप्यक।
“शृङ्गी[Page1703-a+ 38] कर्कटशृङ्गी च स्यात् कुलीरविषाणिका। अजशृङ्गी-च वक्रा च कर्कटाख्या च कीर्त्तिता। शृङ्गी कषायातिक्तोष्णा कफवातक्षयज्वरान्। श्वासोर्द्ध्ववाततृट्कासहिक्कारुचिवमीन् हरेत्” भावप्र॰ तद्गुणादि उक्तम्

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कर्कटशृङ्गी¦ f. (-ङ्गी) A plant, the fruit of which is compared to the claw or feelers of a crab, the horn of a goat, &c. see अजशृङ्गी। E. कर्कट, शृङ्ग a horn, इनि and ङीष् affixes.

"https://sa.wiktionary.org/w/index.php?title=कर्कटशृङ्गी&oldid=263299" इत्यस्माद् प्रतिप्राप्तम्