सामग्री पर जाएँ

कर्कटी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कर्कटी, स्त्री, (कर्कं कण्टकं अटति गच्छति । कर्क + अट् + इन् । शकन्ध्वादित्वात्साधुः ततो ङीष् । करं कटति वा कटेः इन् ततो ङीष् ।) शाल्मलिफलम् । इति मेदिनी ॥ सर्पः । इति शब्दरत्नावली ॥ देव- दालीलता । कर्कटशृङ्गीवृक्षः । एर्व्वारुः । वडका~कुड् इति भाषा । घोटिकावृक्षः । फललताविशेषः । का~कुड् इति भाषा ॥ तत्पर्य्यायः । कटुदली २ छर्द्दापनिका ३ पीनसा ४ मूत्रफला ५ त्रपुषा ६ हस्तिपर्णी ७ लोमशकाण्डा ८ मूत्रला ९ बहु- कन्दा १० । इति राजनिर्घण्टः ॥ कर्कटाक्षः ११ शान्तनुः १२ । इति रत्नमाला ॥ चिर्भटी १३ वालुकी १४ एर्व्वारुः १५ त्रपुषी १६ । इति हेम- चन्द्रः ॥ अस्या गुणाः । मधुरत्वम् । शीतत्वम् । तिक्तायास्तु रक्तपित्तनाशित्वम् । कफदोषकारि- त्वञ्च । पक्वायास्तु मूत्ररोधार्त्तिनाशित्वम् । इति राजनिर्घण्टः ॥ (तथा च भावप्रकाशे । “कर्कटी शीतला रूक्षा ग्राहिणी मधुरा गुरुः । रुच्या पित्तहरा सामा पक्वा तृष्णाग्निपित्तकृत्” । अस्याः पाकप्रकारस्तु । “त्वग्वीजरहिता प्रौढा गुलिकाकारखण्डिता । तलिता सुघृते तप्ते कर्कटो वाऽवलेहिता ॥ विपाण्डुखण्डं घृतदुग्धसार्द्धं विभावितं बल्लजशर्कराभ्यां । कृतैलवासञ्च कदुष्णमेतत् प्रतिक्षणं रोचनमातनोति ॥)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कर्कटी स्त्री।

कर्कटी

समानार्थक:ईर्वारु,कर्कटी

2।4।155।2।4

सुषवी चाथ कुलकं पतोलस्तिक्तकः पटुः। कूष्माण्डकस्तु कर्कारुरुर्वारुः कर्कटी स्त्रियौ॥

 : वनकर्कटी

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कर्कटी f. a female crab MBh.

कर्कटी f. Cucumis Utilissimus , a kind of cucumber Comm. on Ta1n2d2yaBr.

कर्कटी f. a small water-jar Pan5cat.

कर्कटी f. the fruit of Bombax Heptaphyllum L.

कर्कटी f. N. of a राक्षसी

कर्कटी f. ([ cf. Gk. ? ; Lat. चन्चेर्.])

"https://sa.wiktionary.org/w/index.php?title=कर्कटी&oldid=263343" इत्यस्माद् प्रतिप्राप्तम्