कर्कशः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कर्कशः, पुं, (कर्कशब्दात् मत्वर्थे लोमादित्वात् शः ।) काम्पिल्यवृक्षः । इत्यमरः । २ । ४ । १४६ । गु~डा रोचनी इति भाषा ॥ (व्यवहारोऽस्य यथा, चरके विमाने ८ अध्याये ॥ “कर्कोढकवार्त्ताकुकर्कश- काकमाचीकारवल्लीत्यादिषु” ॥) कासमर्दः । इक्षुः । (कृणोति हिनस्ति शत्रुं कृञ् हिंसायां + अन्येभ्यी- ऽपीति विच् । कशति कश्शब्दे इति पचाद्यच्- कर्चासौ कशश्चेति । करे कशति वा ।) खड्गः ॥ इति हेमचन्द्रः ॥
कर्कशः, त्रि, (कर्कात् लोमादित्वात् शः । ततः प्राग्- वत् कृञादिधातोर्निष्पादितार्थे च ।) साहसिकः । कठोरः । (यथा भागवते । ३ । १७ । ११ । “खराश्च कर्कशैः क्षत्तः खुरैर्घ्नन्तो धरातलम्” ॥) अमसृणः । (यथा रघौ । ३ । ४५ । “हरेः कुमारोऽपि कुमारविक्रमः सुरद्विपास्फालनकर्कशाङ्गुलौ” ॥) दुष्पर्शः । इत्यमरः । ३ । ३ । २१६ ॥ क्रूरः । निर्दयः । इति मेदिनी ॥ (यथा रामायणे । ५ । ४९ । ५ । “तस्य तद्वचनं श्रुत्वा राक्षसाः कोपकर्कशाः” ॥) कृपणः । इति विश्वः ॥
