सामग्री पर जाएँ

कर्केतनम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कर्केतनम्, क्ली पुं, (कर्के हास्यादो तनोतीति । कर्के + तन् + अच् । सप्तम्या अलुक् ।) रत्नविशेषः । तदु- त्पत्त्यादि यथा, गारुडे ७५ अध्यायः ॥ सूत उवाच । “वायुर्नखान् दैत्यपतेर्गृहीत्वा चिक्षेप सम्पद्य वनेषु हृष्टः । ततः प्रसूतं पवनोपपन्नं कर्केतनं पूज्यतमं पृथिव्याम् ॥ वर्णेन तद्रुधिरसोममधुप्रकाश- माताम्रपीतदहनोज्ज्वलितं विभाति । नीलं पुनः खलसितं परुषं विभिन्नं व्याध्यादिदोषकरणेन न तद्विभाति ॥ स्निग्धा विशुद्धाः समरागिणश्च आपीतवर्णा गुरवो विचित्राः । त्रासव्रणव्याधिविवर्जिताश्च कर्केतनास्ते परमाः पवित्राः ॥ पत्रेण काञ्चनमयेन तु वेष्टयित्वा हस्ते गलेऽथ घृतमेतदतिप्रकाशम् । रोगप्रणाशनकरं कलिनाशनञ्च आयुष्करं कुलकरञ्च सुखप्रदञ्च ॥ एवंविधं बहुगुणं मणिमावहन्ति कर्केतनं शुभमलं कृतये नरा ये । ते पूजिता बहुधना बहुबान्धवाश्च नित्योज्ज्वलाः प्रमुदिता अपि ते भवन्ति । एकेऽपनह्य विकृताकुलनीलभासः प्रम्लानरागलुलिताः कलुषा विरूपाः । तेजोऽतिदीप्तिकुलपुष्टिविहीनवर्णाः कर्केतनस्य सदृशं वपुरुद्वहन्ति ॥ कर्केतनं यदि परीक्षितवर्णरूपं प्रत्यग्रमास्वरदिवाकरसुप्रकाशम् । तस्योत्तमस्य मणिशास्त्रविदा महिम्ना तुल्यन्तुमूल्यमुदितं तुलितस्य काय्यम्” ॥ हस्ते गलेऽथधृतमेतदतिप्रकाशमित्यत्र वप्तं यदा हुतवहे भवति प्रकाशमिति पुस्तकान्तरे पाठः ॥

"https://sa.wiktionary.org/w/index.php?title=कर्केतनम्&oldid=124404" इत्यस्माद् प्रतिप्राप्तम्