सामग्री पर जाएँ

कर्च्चरिका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कर्च्चरिका, स्त्री, कं सुखं यथा तथा चर्य्यते उप- युज्यते यद्वा कं जलं चुर्य्यते शून्यीक्रियतेऽत्र । क + चर् + वा चुर् + पृषोदरात् रेफादेशे कनादिभिः साधुः ।) पिष्टकविशेषः । इति पाक- राजेश्वरः । कचुरी इति भाषा ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कर्च्चरिका¦ स्त्री पूरिकाभेदे (कचुरी) पाकराजेश्वरः। तत्-पाकप्रकारः भावप्र॰ उक्तो यथा
“माषाणां पिष्टिकापूर्य्या लवणार्द्रकहिङ्गुभिः। तया पिष्टिकया पूर्ण्णा सम्मिताकृतपोलिका। ततस्तैलेन पक्वा सा पूरिका कथिता बुधैः। रुच्या स्वाद्वी गुरुस्निग्धा बल्या पित्तास्रदूषिका। चक्षु-स्तेजोहरी चोष्णा पाके वातविनाशिनी। तथैव धृतपक्वापि चक्षुष्या रक्तपित्तहृत्”।

"https://sa.wiktionary.org/w/index.php?title=कर्च्चरिका&oldid=263626" इत्यस्माद् प्रतिप्राप्तम्