कर्च्चूरः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कर्च्चूरः, पुं, (कर्ज्ज + ऊरः । पृषोदरादित्वात् साधुः ।) वृक्षविशेषः । कचूर इति भाषा । तत्प- र्य्यायः । द्राविडः २ कर्श्यः ३ दुर्लभः ४ गन्धमूलकः ५ वेधमुख्यः ६ गन्धसारः ७ जटालः ८ । अस्य गुणाः । कटुत्वम् । तिक्तत्वम् । उष्णत्वम् । कफ- कासगलगण्डादिदोषनाशित्वम् । मुखवैशद्यजनन- त्वञ्च । इति राजनिर्घण्टः ॥ (यथा चरके सूत्रे २७ अध्याये । “रोचनो दीपनो हृद्यः सुगन्धिस्त्वग्विवर्ज्जितः । कर्च्चूरः कफवातघ्नः श्वासहिक्कार्शसां हितः” ॥)
