सामग्री पर जाएँ

कर्णपिशाची

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कर्णपिशाची, स्त्री, (कर्णं स्वरूपं पिनष्टीति । कर्ण + पिश् + क्विप् । कर्णपिट् अज्ञानं तदाचयति नाश- यति स्वरूपदर्शनेन । ततः आ + चि + णिच् अच् ङीष् च ।) देवीविशेषः । तन्मन्त्रादि यदुक्तं तन्त्रान्तरे । “कर्णास्येक्षणलोहितो वकगतोऽनन्तश्चिकारो वदा- तीतानागतशब्दयुक्तभुवनेशी वह्निजायान्विता । ताराद्यो मनुरेष लक्षजपतो व्यासेन संसेवितः सार्व्वज्ञंलभतेऽचिरेण नियतंपैशाचिकी भक्तितः” ॥ अस्यार्थः । कर्णः स्वरूपः । आस्ये आदौ ईक्षणं इकारः । तत्युक्तो लोहितः पकारः । वकः श- कारः । स अनन्तयुक्त आकारयुक्तः । चि स्वरू- पम् । वदातीतानागतं स्वरूपम् । ततो ह्री~ स्वाहा । एतेन ओ~ कर्णपिशाचि वदातीतानागतं ह्री~ स्वाहा ॥ * ॥ मन्त्रान्तरम् । “कह युग्मं कालिके च गृह्ण युग्मं तथैव च । पिण्डं पिशाचि स्वाहेति नृपार्णः कथितः प्रिये” ॥ कह कह कालिके गृह्ण गृह्ण पिण्डं पिशाचि स्वाहा ॥ * ॥ ध्यानं यथा । “कृष्णां रक्तविलोचनां त्रिनयनां खर्ब्बञ्च लम्बोदरीं बन्धूकारुणजिह्विकां वरवराभीयुक्करामुन्मुखीम् । धूम्रार्च्चिर्जटीलां कपालविलसत्पाणिद्वयां चञ्चलां सर्व्वज्ञां शवहृत्कृताधिवसतों पैशाचिकों तां नुमः” ॥ अथ पूजा । “निशायामर्द्धरात्रौ च हृदि न्यस्य पिशाचिकीम् । दग्धमीनं बलिं दत्त्वा रात्रौ संपूज्य संजपेत्” ॥ ओम् कर्णपिशाचि दग्धमीनबलिं गृह्ण गृह्ण मम सिद्धिं कुरु कुरु स्वाहेति दग्धमीनं बलिं दद्यात् । “रक्तचन्दनबन्धूकजवापुष्पादिकञ्च यत् । अमृतं कुरु देवेशि स्वाहेति प्रोक्षयेज्जलैः” ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कर्णपिशाची/ कर्ण--पिशाची f. N. of a goddess Tantras.

"https://sa.wiktionary.org/w/index.php?title=कर्णपिशाची&oldid=495129" इत्यस्माद् प्रतिप्राप्तम्