कर्णप्रतिनाहः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कर्णप्रतिनाहः, पुं, (कर्णे जातः प्रतिनाहः रोग- विशेषः ।) कर्णरोगविशेषः । तस्य सम्प्राप्तिरूपे । “सकर्णगूथो द्रवतां यदा गतो विलायितो घ्राणमुखं प्रपद्यते । तदा स कर्णप्रतिनाहसंज्ञितो भवेद् विकारः शिरसोऽर्द्धभेदकृत्” ॥ इति माधवकरः ॥ (अस्य चिकित्सा यथा, -- “अथ कर्णप्रतीनाहे स्नेहस्वेदौ प्रयोजयेत् । ततो विरिक्तशिरसः क्रियां प्राप्तां समाचरेत्” ॥ इति वैद्यकचक्रपाणिसंग्रहे कर्णरोगाधिकारः ॥)
