सामग्री पर जाएँ

कर्णरोग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कर्णरोगः, पुं, (कर्णस्य कर्णेगतः कर्णे जातो वा रोगः ।) श्रवणव्याधिः । यथा । अथ कर्णरोगाधिकारः । तत्र कर्णरोगाणां नामानि सङ्ख्याञ्चाह । “कर्णशूलं प्रणादश्च बाधिर्य्यं क्ष्वेड एव च । कर्नस्रावः कर्णकण्डूः कर्णगूथस्तथैव च ॥ प्रतिनाहो जन्तुकर्णो विद्रधिर्विविधस्तथा । कर्णपाकः पूतिकर्णस्तथैवार्शश्चतुर्व्विधम् ॥ तथार्व्वुदं सप्तविधं शोफश्चापि चतुर्व्विधः । एते कर्णगता रोगा अष्टाविंशतिरीरिताः” ॥ * ॥ तेषु कर्णशूलस्य संप्राप्तिपूर्ब्बकं लक्षणमाह । “समीरणः श्रोत्रगतोऽन्यथा चरन् समन्ततः शूलमतीव कर्णयोः । करोति दोषैश्च यथास्वमावृतः स कर्णशूलः कथितो दुराचरः” ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कर्णरोग/ कर्ण--रोग m. disease of the ear Sus3r.

"https://sa.wiktionary.org/w/index.php?title=कर्णरोग&oldid=263972" इत्यस्माद् प्रतिप्राप्तम्